पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गारामजटीयं । स्वापत्तेरिति चेन सदधिकरणतानवच्छेदकानवाच्छन्नतद्वनिष्ठविशेष्यतानिरूपिततनिष्ठप्रकारताशालित्वविव- क्षणेन सर्वानुपपत्तिपरिहार संभवात् । नन्वत्र तद्वत्वं तत्प्रतियोगिकसंबन्धानुयोगिस्वमावश्यकमन्यथा वृत्त्य नियामकसंबन्धावगाहिप्रमाया अव्याप्तेः । तथा च वायू रूपवानिति भ्रमेऽतिव्याप्तिरिति चेन्न रूपनिरूपित- त्वविशिष्टसमवायिकारणताया एव रूपसंबन्धत्वेन महादेवेनाभ्युपगतत्वात् । तदभाववाद्विशेष्यकत्वावच्छिन्न । तत्प्रकारकत्वं तद्भमत्वम् । नन्वत्र रजते रजतत्त्वज्ञानस्यापि भ्रमत्वापत्तिः वैशिष्टयव्याराज्यवृत्तिधर्मावच्छिन्न- प्रतियोगिताकरजतत्वाभावस्य रजते सत्त्वात् । नच प्रकारतावच्छेदकधर्मावच्छिन्न प्रतियोगिताकतदभावो विवक्षित इति न दोष इति वाच्यम् । तथा सति स्वरूपतो रजतत्वप्रकारकरङ्गविशेष्यकन्नानस्य भ्रमत्वानुपप- तेः तत्र प्रकारतावच्छेदकामाप्रासिद्धेः । न च स्वीयप्रकारतानवच्छेदकधर्मावच्छिन्न प्रतियोगिताकाभावो विवक्ष्यते व्यासप्रवृत्तिवर्मावच्छिन्न प्रतियोगिताकामावश्च न तथेति वाच्यम् । तावताव्याप्तेरनुद्धारात् स्वरूपतो रजतत्वप्रकारकप्रमीय प्रकारतावच्छेदकधर्मानबाच्छन्नपातयोगिताकरजतत्वाभावप्रसिद्धः तत्प्रतियोगितावच्छे- दकरजतत्त्वादेः प्रतियोगितानवच्छेदकत्वात् किंचिरस्त्रीयप्रकारतावच्छेदकत्वं स्वीयप्रकारतानिरूपितविलक्ष- गावच्छेदकत्वाभावः तथाच तत्राप्रसिद्धिस्तदीय प्रकारतानिरूपितविलक्षणावच्छेदकत्वाप्रसिद्धेः । नच वैशि- टयव्यासज्य वृत्तिधानवच्छिन्न प्रतियोगिताकतदभाववत्त्वविवक्षणान कोऽपि दोष इति वाच्यम्। गुण कर्मान्य. त्वविशिष्टसत्तावान् गुण इत्यादिभ्रमे अव्याप्तेः वैशिष्ट्यव्यासज्यवृत्तिधर्मानवच्छिन्नसत्तानिष्ट प्रतियोगितालाभा. वस्य गुणे सत्त्वात् । नच प्रकारतावच्छेदकातिरिक्तवैशिष्ट्यव्यासज्यवृत्तिधर्मानच्छिन्न प्रतियोगिता कामावो वि. वक्षितः उक्तस्थले च गुणकर्मान्यत्वविशिष्टवत्तात्वावच्छिन्नप्रतियोगिताकाभाव एव तादृशोभयवति नातिव्याप्ति- रिति वाच्यम् । तथा सति स्वरूपतोऽतिरिक्तत्व प्रकारकभ्रमेऽव्याप्तेः वज्रलेपायमानत्वात् तन्त्र प्रकारतावच्छेद. काप्रसिद्धिः । यदि च प्रकारतावच्छेदकत्वं न प्रकारतानिरूपितप्रकारतारूपविलक्षणावच्छेदकतात्वेन निवे. श्यते किन्तु प्रकारांश विशेषणीमवद्धर्मनिष्ठप्रकारता निरूपितावच्छेदकत्वप्रकारितावच्छेदकसंबन्धनिष्ठ सांसर्गि. कविषयत्वोभयसाधारणावच्छेदकत्तात्वेन प्रकारतानिरूपिताविशेष्यताभिन्नविषयतात्वेन वा निवेश्यते तथा च स्वरूपतो रजतत्वप्रकारकज्ञानीयप्रकारतावच्छेदकत्वसमवाय एव प्रसिद्ध इति नाव्याप्तिरित्युच्यते तथापि प्रमेयत्तेन रूपेण यावत्प्रमेयप्रकारतावच्छेदकसंयोगसंसर्गकगुणविशेष्यकप्रमेयत्वान्य गुण इत्याकारके भ्रमेऽ- च्याप्तिः तत्र प्रमेयमात्रस्यैव तादृश प्रकारतावच्छेदकत्वेन तदतिरिकाप्रसिद्धेः । किञ्च संयोगेन दण्डप्रकारक. प्रमायामतिव्याप्तिः तद्दण्डवृत्तिसंयोगान्तरव्यक्त यवच्छिनत द्दण्ड निष्ठप्रातियो गताकामावस्य तद्वति सत्त्वात् । नब स्वीयप्रकारतानिरूपितविशेष्यताभिन्नविषयतानवच्छेदकावच्छिन्नावच्छेदकत्ताकतन्निष्ठप्रतियोगिताकाभा- वो निवेश्यते प्रकृते च तादृशसांसर्गिकविषयतानवच्छेदकं संयोगत्वं न तत्प्रतियोगितावच्छेदकं प्रमेयत्वा- दीति नाव्याप्तिः प्रमेयत्ववान् गुण इत्यत्रापि तादृशविषयतावच्छेदकप्रमेयत्वातिरिक्तवस्य प्रसिद्धत्वात तद - वच्छिन्नप्रतियोगितानवच्छेदकताकतादृशाभावः प्रमेयावच्छिन्नसंयोगसंवन्धावच्छिन्न प्रतियोगिताकाभावः गुणे वर्तत एवेति नाव्याप्तिरिति वाच्यम् । रजतमित्यादिक्षाने स्वरूपत एव समवायस्य संसर्गतास्वीकारात् र. विशेष्यकरजतत्वप्रकारकभ्रमेऽव्याप्तिः तदवस्था । तन तादृशविषयतावच्छेदकाप्रसिद्धिः प्रमेयप्रकारतावच्छे. दकतावच्छेदकसंयोगसंसर्गकगुणविशेष्यकप्रमेयत्ववान् गुण इत्याकारकनमेऽव्याप्तेश्च तत्र तादृशविषयताव- च्छेदकातिरिकाप्रसिद्धिः। अथ वृक्षसंयोगीति प्रमायामतिव्याप्तिवारणाय प्रतियोग्यनधिकरणतदभावाधिक रणनिष्ठविशेष्यतेति निवेशनीयं तथाच वैशिष्टयव्यासज्यवृत्तिधर्मावच्छिन्नाभावमादाय न दोषः तदाधिकरण- भूतस्य विशेष्यस्य प्रतियोग्यनधिकरणत्वात् सर्वत्र लक्षणसमन्वय इति चेन्न तथा सति गुणकर्मान्यत्वविशि- सत्तावान गुण इति अमेऽव्याप्तिः गुणस्य सत्तारूपप्रतियोग्यधिकरणत्वात् । नच प्रतियोगितावच्छेदकवि- शिष्टानाधिकरणावं वक्तव्यमिति वाच्यं तथा सति रजतस्वप्रकारकममायामतिव्याप्तेस्तदवस्थत्वात् रजतत्वस्य ताशवैशिष्टयव्यासज्यवत्तिधर्मावच्छिन्नानाधिकरणत्वात् । अथ प्रकारताविशिष्टव्यापकतावच्छेदकरूपावच्छि- नप्रतियोगिताकाभावो निवेश्यते वैशिष्टयादेश्च रजतत्वव्यापकतानवच्छेदकत्वान्न दोषः एतेन घ्राणग्राह्यगुण. वान् गुण इति भ्रमे प्रकारतावच्छेदकीभूतघ्राणप्राह्यगुणत्वस्याभावप्रतियोगितानवच्छेदकत्वेऽपि न दोषः तत्र