पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७६ दिनकरीयटिप्पणं । गन्धस्यैव तथात्वात् तथाच स्वीयतानिष्ठप्रकारतावच्छेद कसंबन्धावच्छिन्नतादृशप्रकारत्वावच्छिनव्याप्यतानि. रूपितव्यापकतावच्छेदकरूपावच्छिन्न व्यापकताघटक संबन्धावच्छिन्न प्रतियोगिताकाभावविशिष्टविशेष्यतानिरू- पिततनिष्टप्रकारताशालिस्वामिति निष्कर्षः । व्यधिकरणसंवन्धावच्छिन्न प्रतियोगिताकाभावमादाय प्रमा. यामतिव्याप्तिवारणाय व्यापकता घटकसंवन्धावच्छिन्नत्वं प्रतियोगितायां विशेषणम् । नच प्रकारता- वच्छेदकसंबन्धावच्छिन्न त्वमेव निवेश्य तामिति वाच्यं तथा सति रजतत्वव्यापकतावच्छेद कर जतत्वप्र- कारक प्रमाविशेष्यतात्वावच्छिन्नसमवाय संबन्धावच्छिन्नत्वाभावमादायातिव्याप्तिरित्यन्य देतत् ॥ तदाच न कोऽपि दोष इति चेन्न गगनवान् घट इति भ्रमेऽतिव्याप्तः गगनस्वावृत्तितया गगनाधिकरणत्व- घटितगगनव्यापकत्वाप्रसिद्धेः विशिष्टसत्तावान् गुण इति भ्रमेऽव्याप्तेश्च । ननु प्रकारताव्याप्तधर्मावच्छिन्ना- भावो निवेश्यते तथाच गगनत्वावच्छिन्नाभाव एवोकस्थले लक्षण घटकः । नचैवं सत्तावान् गुण इति प्रमा- यामव्याप्तिः विशिष्ट सत्तास्वाच्छिन्नाभादस्य तादृशधर्मावच्छिन्न प्रतियोगिताकस्य गुणे सत्त्वादिति वाच्यं प्र. तियोगिव्यापकधर्मावच्छिन्नाभावकूटवत्वस्य विचक्षणीयत्वात् गुणस्य सत्तात्वावच्छिन्नाभावघटिततादृशकू- टानाधिकरणत्वात् । न चैवं रङ्गविशेष्य करजतत्वप्रकारकभ्रमेऽव्याप्तिः रङ्गस्य रजतत्वनिष्टप्रकारताव्यापकाभि- नामावटितकूटानधिकरणत्वादिति वाच्यं प्रकारतासमनियतधर्मावच्छिन्नाभाव कूटानधिकरणत्वस्य विवक्ष. णीयत्वात् जातित्वस्य प्रकारताव्याप्यत्वाभावनादोषादिति चेन्न। तथा सति गुणकर्मान्यत्वविशिष्ट सत्तावान् गु. ण इति भ्रमेऽव्याप्तेः गुणस्य सत्तास्वावच्छिन्नाभावघटिततादृशकूटानधिकरणत्वात् । अनाहुः तत्प्रकारता. घटितधर्मावच्छिन्न प्रतियोगिताकाभावो निवइयते तत्प्रकारताघटकधर्मश्च रजतत्वं तदवच्छिन्न प्रतियोगिता- काभावमादाय भ्रमे लक्षणसमन्वयः सत्ताप्रकारताघटकधर्मश्च स तात्वमेवेति नातिव्याप्तिः गुणकर्मान्यत्व- विशिष्टसत्ताप्रकारताघटकधर्मश्च गुणकर्मान्यत्वविशिष्टसत्तात्वमेवेति नाव्याप्तिः । नच स्वविषयकप्रती. त्यविषय गुणकर्मान्यत्वविशिष्टसत्ताप्रकारतास्वरूपं विशिष्टसत्ताप्रकारताघटकरवं विशिसत्तात्वस्य न सं. भवति विशिष्टमसात्वावच्छिन्न प्रकारतामेव सत्ताप्रकारतात्वेन प्रमेयत्वेन वावगाहमानायां प्रतीतो विशियसत्तात्वस्याविषयत्वादिति वाच्यं स्वनिरूपकतावच्छेदकप्रकार तात्वघटकधर्मावच्छिन्न प्रतियोगि- ताकाभावविशिष्टविशेषनिवेशेनानुपपत्त्यभावात् स्वाविशेष्यतासत्ताप्रकारतावादिकं च भोक्तभ्रमीयविशेष्य- तानिरूपकतावच्छेदकं किन्तु गुणकर्मान्यत्वविशिष्टमत्तात्वावच्छिन्न प्रकारतात्वमेवेत्ति लक्षणसमन्वयात् । नच प्रकारतात्वस्यापि विशेष्यतानिरूपकतावच्छेदकघरकत्वात्तदवच्छिन्न प्रतियोगिताकाभावमादाय प्रमाया- मतिव्याप्तिरिति वाच्यं तनिष्ठत्वस्यापि प्रतियोगिताय विशेषणत्वात् उक्तप्रतियोगितायाः प्रकारतानिष्ठत्वे. नानुपपत्यभावादिति केचित् । तत्र घ्राणप्राह्यगुणवजालामांत भ्रनेऽज्याप्तेः तत्र जलवावच्छिन्नविशेष्यतानि- रूपकतावच्छेदकघटकघ्राणमा ह्यगुणत्वस्थाभावप्रतियोगितानवच्छेदकत्वेन तदवच्छिन्न प्रतियोगिताकामावाप्र. सिद्धेः । अतः स्वसमानाधिकरणाभावप्रतियोगितावच्छेदकावच्छिन्न प्रकारतान्या या समानाधिकरणाभावप्र- तियोगितानवच्छेदकव्यापिका प्रकारता तदन्यनिष्टप्रकारतानिरूपितविशेष्यत्वं समुदितलक्षणार्थः स्वपदं विशे. प्यतापरं स्वरूपतो रजतत्यप्रकारकभ्रमे रजतत्वप्रकारताया: स्वसमानाधिकरणप्रतियोगितावच्छेदकावच्छि- मान्यत्वेन स्वसमानाधिकरणप्रतियोगितानवच्छेदकरजतत्वव्यापकत्वेन च तदन्यत्वाभावानातिव्याप्तिः गुण- कर्मान्यत्वविशिष्टसत्तावान् गुण इति भ्रमे च प्रकारताया गुणनिष्ठाभावप्रतियोगितानवच्छेदकसत्तात्वव्यापक. खेऽपि स्वसमानाधिकरणाभावप्रतियोगितावच्छेदकावच्छिन्नान्यत्वाभावेन तादृशान्यत्वासंभवानाव्याप्तिः । सत्तात्वेन स्वरूपतो वा सत्ता प्रकारकप्रमायान्तु प्रकारतायाः तादृशावच्छेदकावच्छिन्नान्यत्वात् तादृशा- वच्छेदकसत्तात्वव्यापकत्वात्तदन्यत्वाभावानातिव्याप्तिः । गगनवान् घट इत्यत्र तु गगनत्यावच्छिन्न- प्रकारतायाः निरुतावच्छेदकावच्छिन्नत्वात् निरुक्तावच्छेदकाव्यापकत्वाभावानातिव्याप्तिः । घ्राणप्राह्यगुण. वज लामितिभ्रमे घ्राणप्राह्य गुणत्वावच्छिन्न प्रकारताया निरुक्त प्रतियोगितावच्छेदकगन्धवावच्छिन्नान्यत्वेऽपि नि- सतावच्छेदकव्यापकत्वाभावात् तदन्यत्वसत्त्वात् लक्षणसमन्वयाघ्राणग्राह्यगुणवती पृथिवयित्र तादृशानवच्छे. दकव्यापकत्वानातिव्याप्तिः। ननु प्रतियोगितानवच्छेदकावच्छिन्नत्वं प्रतियोगितावच्छेदकतापर्याप्त्यधिकरणध-