पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. पि यत इत्यादिः । द्रव्यपदस्य क्षिलादिपु वचनविपरिणामेनान्वयः। तथा च यतः पृथिवी द्रव्य मित्यादि अत एतानि नव द्रव्यागीत्यर्थकरणात् पृथिवीत्वादिप्रत्येक वच्छिन्ने द्रव्यत्वलाभात् उक्तव्याप्तिलाभ इति द्रव्याणीति मजूपा. द्वोघोधिप्रयुक्तावेव च रामकृष्णयोरावृतत्वानावृतत्वव्यवहारों । संभवति चेदृश एव भूतानां मानुषशरीरेप्चा- बेशः तच्छरीरावच्छिन्नलौकिकसाक्षात्कारविषयत्वात् । इयांस्तु विशेष भूतानां लौकिकसाक्षात्कारस्वात्म मात्र वि. षयकः न मानुषात्मविषयकः मनसो भिन्नत्वात् भूतीयस्यैव हि मनसस्तदात्मना चिजातीयसंयोगः तच्छ- रीरावच्छेदेनोत्पद्यते इह त्वेकस्यैव मनसो युगपत्स्वात्मना परमात्मना च विजातीयसंयोगायोरभेदभ्रम इति प्र- तिमादिष्वाविष्टानामपि गणानां शरीरेपु परमात्मन ईदृशोऽनुप्रवेशो न निवार्यते । नचैवमीश्वरस्य लौकिक- साक्षात्काराविषयत्वसिद्धान्तविरोधः अस्मदादिलौकिकसाक्षात्काराविषयत्वस्यैवाभिप्रेतत्वात्तावतवेश्वरेऽनुमाना- दिप्रणयनसार्थक्यात् ब्रह्मादीनामपि लौकिकसाक्षात्कारप्रमाविषयवस्थेवरे अभावाच्च । एवंच तच्छरीराव- च्छिन्नविजातीयमनस्संयोगाश्रयत्वमेव तत्रानुप्रवेश इत्यपि वक्तुं युक्तं भूतेश्वरसाधारण्येन एवं परमात्मनः प्रत्य- क्षं नास्तीति लेखनमपि प्रन्थकृतां अस्मदादिविषयं । अन्यथाऽन्येनात्मना विजातीयमनस्संयोगात्तदीयजन्मवृत्ता- न्तस्य स्वात्मीयतया प्रत्यभिज्ञाप्रतिपादनपरपुराणकथाविरोधात् अथवा लौकिकविषयता द्विविधा लौकिकसन्नि- कर्षप्रयोज्या दोषविशेषप्रयोज्या च । तथाच यथा मण्डूकवसाञ्जनादिप्रयोज्या उरगत्वादी लौकिकधिपयता यथा च देशान्तरगतादृष्टचरकामिनागुणविशेषबहुतरश्रवणजनितवासनाविशेषोपोद्वलितरागविशेषविततिपरि. भावनातिशयरूपदोपविशेषात्कामिनी परिरम्भादौ चाक्षुषलौकिकविषयता परिरम्भमुखे च मानसलौकिक विषयता तथात्रापि । तथाहि ब्रह्मादयस्सर्वज्ञा महायोगिनी विदितेश्वरतत्त्वाः कालविशेषे पुरुषान्तरीश्वरत्वेन स्तूय- मानास्सादरं च तां स्तुतिमाकर्णयन्तः तदुद्वधिताभिरनादौ संसारे पूर्वपूर्वानुभूतेश्वराभेदविषयवासनाभिः पुरुषा- न्तरपार्थ्यमानकर्तव्यकोद्योगसकृताभिः योगविशेषोपोद्धाविताभिरपहृतमनसस्स्वात्मानमेवेश्वरत्वेन स्वात्मत्वे न चेश्वरंमन्यनानाः कर्मविशेषानारभन्ते । अत एव कर्मविशेषारम्भेषु अवश्यमेव स्तूयन्ते । एवं च यथोपव- णितवासनारूपदोषविशेषप्रयोज्ये वेश्वरलौकिकाविषयता नतु लौकिकसन्निकर्षप्रयोज्येति न दोषः लो- किकसनिकर्षप्रयोज्यलौकिकविषयताशून्यत्वस्यैव सिद्धान्तत्वादतश्च तच्छरीरावच्छिन्नस्वात्मत्वानकारकसा- क्षात्कारनिरूपितलौकिकविषयताश्रयत्वमेव तत्रानुप्रवेशो नाम एवंचतन्मते देहवाचकपदोत्तरमत्व यत्र- त्ययेन देहावच्छिन्नत्वतदवच्छिन्नज्ञानाश्रयत्वादिकमिव तदनुप्रविष्टत्वमपि बोध्यते मूर्तिहानस्त्रिमूर्तिमानि- ति प्रयोगादतो देहिशब्देनेश्वरस्यापि लाभसंभवः । अथवा यथाहि नित्यायामपि भगवदिच्छायो सृष्टि- गोचरत्वरूपसिसृक्षात्वसंहारगोचरत्वरूपसंजिहीर्घात्वादेः कालिकाव्याप्यवृत्तित्वं तथा निरवच्छिन्नवृत्तिकास्व- पि तदीयज्ञानेच्छाकृतिषु तत्तदर्थविषयकत्वं दैशिकव्याप्यवृत्ति स्वीवियते । तथाहि यदेश्वर तया ब्र. मादयस्स्तूयन्ते तदा भगवज्ज्ञाने तज्ज्ञातव्याविषयकत्व मिच्छायां च एष्टव्यार्थविषयकत्वं कृती च दिनकरीयम्. कालदिशोस्तु एतस्मिन्काले घटः, पूर्वस्यां दिशि पटः इत्याद्यनुगताकारप्रत्ययात् मनसञ्चासमवेतभूतत्वे पार्थि वादिनसरेणूनादाय विनिगमनाविरह इत्याशयः । अधिक्रमने व्यक्तीभविष्यति । मूले द्रव्याणीति ॥ द्रव्यप, रामरुद्रीयम्. दकत्वं, तददृष्टजन्यत्वं, तस्कृतिजन्यचेष्ठावत्त्वं वा । नायद्वितीयौ । तस्य भोगादृष्टयोरभावात् । नापि तृतीयः । समवायेन चेष्टां प्रति अवच्छेदकतासम्बन्धेनैव कृतेः कारणतया व्याप्यवृत्तित्वेनेश्वरकृतेरव. च्छेदकतया काप्यसत्त्वात् । कार्यत्वावच्छिन्नकारणताया एव तत्राझीकारात् । ब्रह्मादीनां जीवन्मुक्तयोगि त्वस्याभ्युपेयत्वादिति ध्येयम् । अयोग्यत्वस्यैवेति ॥ मानसप्रत्यक्षायोग्यत्वस्यैवेत्यर्थः । तेन शब्दस्य श्रावण वेऽपि न क्षतिः । त्रसरेणूनिति ॥ नवीनमते अवयवधारायास्त्र्यणुकेष्वेव विश्रान्तेस्तेषामेवासमवेतत्वा.