पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली ८८३ । प्रथमास्त्रयः । गुरुणी द्वे रसवती द्वयोनैमित्तको द्रवः ॥ २८ ॥ आत्मानो भूतवर्गाश्च विशेषगुणयोगिनः । यदुक्तं यस्य साधये वैधामितरस्य तत् ॥ २९ ॥ स्पर्शादयोऽष्टौ वेगाख्यः संस्कारो मरुतो गुणाः । स्पर्शाद्यष्टौ रूपवेगौ द्रवत्वं तेजसो गुणाः ॥ ३० ॥ स्पर्शादयोऽष्टौ वेगश्च गुरुत्वं च द्रवत्वकम् । रूपं रसस्तथा स्नेहो वारिपयेते चतुर्दश ॥ ३१ ॥ स्नेहहीना गन्धयुताः क्षितावेते चतुर्दश । बुद्धयादि षटकं संख्यादिपञ्चकं भावना तथा ॥ ३२ ॥ धर्माधर्मों गुणा एत आत्मनः स्युश्चतुर्दश । संख्यादिपञ्चकं कालदिशोः शब्दश्च ते च खे ॥ ३३ ॥ संख्यादयः पञ्च बुद्धिरिच्छा यत्नोऽपि चेश्वरे । परापरत्वे सं. ख्याद्याः पञ्च वेगश्च मानसे ॥ ३४ ॥ तत्र क्षितिगन्धहेतुर्नानारूपवती मता । पाड्डधस्तु रसस्नत्र गन्धस्तु द्विविधो मतः ॥ ३५ ॥ स्पर्शस्तस्यास्तु विज्ञयो झनुष्णाशीतपाक जः । नित्यानित्या च सा द्वेधा नित्या स्थाढणुलक्षणा ॥३६ ॥ अनित्या तु तदन्या स्था. सैवावयवयोगिनी । सा च त्रिधा भवद्देहमिन्द्रयं विषयस्तथा ॥ ३७ ॥ योनिजादि वे देह इन्द्रियं ब्राणलक्षणम् । विषयो द्वन्यणुकादिश्च ब्रह्माण्डान्त उदाहृतः ॥ ३८ ॥ वर्णः शुक्लो रसस्पर्शी जले मधुरशीतलौ । स्नेहस्तत्र द्रवत्वं तु सांसिद्धिकमुनाहृतम् ॥ ३९ ॥ नित्यतादि प्रथमकि तु देहमयोनिजम्। इन्द्रियं रसनं सिन्धुहिमादिविषयो मतः ॥ ४० ॥ उष्णस्पर्शस्तेजसस्तु स्याद्रूपं शुक्लभास्वरम् । नैमित्तिकं द्वत्वं तु नित्यतादि च पूर्ववत् ॥ ४१ ॥ इन्द्रियं नयनं वह्निस्वादिविषयो मतः । अपाकजोऽनुष्णाशीतः स्पर्शस्तु पय- ने मतः ॥ ४२ ॥ तिर्यग्गमनवानेष ज्ञेयः स्पर्शादिलिङ्गकः । पूर्ववन्नित्यतायुक्तं देहव्यापि स्वगन्द्रियम् ॥ ४३ ॥ प्राणादिस्तु महाचायुपर्यन्ता विषयो मतः । आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः ॥ ३४ ॥ इन्द्रियं तु भवेच्छ्रोत्रमेकः सम्मप्युपाधितः । जन्यानां ज. नकः कालो जगतामाश्रयो मतः ॥ ४५ ॥ परापरत्वधीहेतुः क्षणादिः स्यादुपाधितः । दू. रान्तिकादिधीहेतुरेका नित्या दिगुच्यते ॥ ४६॥ उपाधिभेदादेकापि प्राच्यादिव्यपदेश- भाक् । आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् ।। ४७ ॥ शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः । तथात्वं चेदिन्द्रियाणामुपयाते कथं स्मृतिः ॥ ४८ ॥ मनोऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेत् । धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोगतः ॥ ४९ ॥ प्रवृत्त्याद्य- नुमेयोऽयं रथगत्येव सारथिः । अहंकारस्थाश्रयोऽयं मनोमात्रस्य गोचरः ॥ ५० ॥ वि- भुर्बुद्धयादिगुणवान्बुद्धिस्तु द्विविधा मता । अनुभूतिः स्मृतिश्च स्यादनुभूतिश्चतुर्विधा । ५१ ॥ प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे । ब्राणजादिप्रभेदेन प्रत्यक्षं षधिं मतम् ॥ ५२॥ प्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः । तथा रसो रसज्ञायास्तथा शब्दो. ऽपि च श्रुतेः ॥ ५३ ॥ उद्भूतरूपं नयनस्य गोचरो द्रव्याणि तद्वन्ति पृथक्त्वसंख्थे । वि. भागसंयोगपरापरत्वस्नेहद्रवत्वं परिमाणयुक्तम् ॥ ५४ ॥क्रिया जातियोग्यवृतिः समवा- यश्च तादृशः ॥ गृह्णाति चक्षुः संयोगादालोकोद्भूतरूपयोः ॥ ५५ ॥ उद्भूतस्पर्शवव्यं गो चरः सोऽपि च त्वचः । रूपान्यचक्षुषो योग्यं रूपमत्रापि कारणम् ॥ १६ ॥ द्रव्याध्यक्ष त्वचो योगो मनसा शानकारणम् । मनोग्राह्यं सुखं दुःखमिच्छा द्वेषो मतिः कृतिः ॥ ५७ ॥ शानं यनिर्विकल्पाख्यं तदतीन्द्रियमिष्यते । महत्त्वं पडिधे हेतुरिन्द्रियं करणं गतम् ॥ ५८ ॥ विषयेन्द्रियसंवन्धो व्यापारः सोऽपि षड्डिधः । द्रग्रहस्तु संयोगात्संयुक्तसमवा- यतः ॥ ५९॥ द्रव्येषु समवेतानां तथा तत्समवायतः । तत्रापि समवेतानां शब्दस्य स- मवायतः ॥ ६ ॥ तद्वृत्तीनां समवेतसमवायेन तु ग्रहः । प्रत्यक्षं समवायस्य विशेषणत. या भवेत् ॥ ६१ ॥ विशेषणतया तद्वदभावानां ग्रहों भवेत् । यदि स्यादुपलभ्यतेत्येवं य- व प्रसज्यते ॥ १२ ॥ अलौकिकस्तु व्यापारस्त्रिविधः परिकार्तितः । सामान्यलक्षणो