पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८४ कारिकावली ॥ ज्ञानलक्षणो योगजस्तथा ॥ ६३ ॥ आसत्तिराश्रयाणां तु सामान्यज्ञानमिष्यते। तदिन्द्रि- यजतद्धर्मवोधसामयग्यपेक्ष्यते ।। ६४ ॥ विषयी यस्य तस्यैव व्यापारो शानलक्षणः । योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभेदतः ॥ ६५ ॥ युक्तस्य सर्वदा भानं चिन्तालहकृतो. ऽपरः । व्यापारस्तु परामर्शः करणं व्याप्तिधार्भवेत् ॥ ६६ ॥ अनुमायां ज्ञायमानं लिङ्गं तु करणं नहि । अनागतादिलिङ्गेन न स्यादनुमितिस्तदा ॥ ६७ ॥ व्याप्यस्य पक्षवृत्तित्व धीः परामर्श उच्यते । व्याप्तिः साध्यवदन्यस्मिन्नसंवन्ध उदाहृतः ॥ ६८ ॥ अथवा हे. तुमन्निष्ठविरहाप्रतियोगिना साध्येन हेतारैकाधिकरण्यं ब्राप्तिरुच्यते ॥ ६९ सिपाधयिष- या शून्या सिद्धिर्यत्र न विद्यते । स पक्षस्तत्र वृत्तित्वज्ञानादनुमित्तिर्भवेत् ॥ ७२ अनेकान्तो विरुद्धश्चाप्यसिद्ध प्रतिपक्षितः । कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्च धा ॥ ७१ । आद्यः साधारणस्तु स्यामाधारणकोऽपरः । तथैवानुपसंहारी विधानेका- न्तिको भवेत् ॥ ७२ ॥ यः सपक्ष विपक्षे च भवेत्माधारणस्तु सः । यस्तूभयस्माद्यावृत्तः म चासाधारणो मतः ।। ७३ ॥ तथैवानुपसंहारी केवलान्वयिपक्षकः । यः साध्यवति नवास्ति स विरुद्ध उदाहृतः ॥ ७४ । आश्रयासिद्धिराद्या स्यात्स्वरूपासिद्धिरप्यथ । व्याप्यत्वासिद्धिरपग स्यादसिद्धिरतस्त्रिधा ॥ ७५ ॥ पक्षासिद्धिर्यत्र पक्षो भवेन्मणिमयो गिरिः । ह्रदा द्रव्यं धूमवत्त्वादनामिद्धिरथापरा ॥ ७६ ॥ व्याप्यत्वासिद्धिरपरा नीलधू. मादिके भवेत् । विरुद्धयोः परामर्श हत्याः सत्प्रतिपक्षता ॥ ७ ॥ साध्यशन्यो यत्र पक्षस्त्वमी बाध उदाहृतः । उत्पत्तिकालीनघटे गन्धादिर्यत्र साध्यते ॥ ७८ ॥ ग्रामीणस्य प्रथमतः पश्यती गवयादिकम् । सादृश्यधीवादीनां या स्यात्सा करणं मतम् ॥ ७० ॥ वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार उच्यते । गवयादिपदानां तु शक्ति- धीरुपमाफलम् ॥ ८० ॥ पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः । शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी ॥ ८१ ॥ लक्षणा शक्यसंबन्धस्तात्पर्यानुपपत्तितः । आसत्ति- योग्यताकाङ्गाना-पर्यज्ञानमिष्यते ॥ ८२ ॥ कारणं सन्निधानं तु पदस्यासत्तिरुच्यते । पदार्थ तत्र तद्वत्ता योग्यता परिकीर्तिता । ८३ ॥ यत्पदेन विना यस्याननुभावकता भवेत् । आकांक्षा वरिच्छा तु तात्पर्य परिकीर्तितम् ॥ ८४ ॥ साक्षात्कारे सुखादीनां करणं मन उच्यते । अयोगपद्यान्झानानां तस्याणुत्वामहोच्यते ।। ८५ ॥ अथ द्रव्याश्रिता क्षेया निर्गुणा निष्क्रिया गुणाः। रूपं रसः स्पर्शगन्धो परत्वमपरत्वकम् ॥ ८६॥ द्रवत्वस्ने हवेगाश्च मता मूर्तगुणा अमी । धर्माधर्मो भावना च शब्दो बुद्धथादयोऽपि च ॥ ८७ ॥ एतेऽमूर्तगुणाः सर्व विद्वद्भिः परिकीर्तिताः । संख्यादयो विभागान्ता उभयेषां गुणा म- ताः ॥ ८८ ॥ संयोगश्च विभागश्च संख्या द्वित्वादिकास्तथा । द्विपृथक्त्वादयस्तद्वदेतेऽने- काश्रिता गणाः ॥ ८५ ॥ अतः शेषगुणाः सर्वे मता एकैकवृत्तयः । बुद्धयादिषट्कं स्प- शान्ताः स्नेहः सासिद्धिको द्रवः ॥ ९० ॥ अदृष्टभावनाशब्दा अमी वैशेषिका गुणाः । संख्यादिरपरत्वान्ता द्रवोऽसालिद्धि कस्तथा ॥ ९१ ॥ गुरुत्ववेगौ सामान्यगुणा एते प्र.. कीर्तिताः । संख्यादिरपरत्वान्तो द्रवत्वं मह एवच ॥ ९२ ॥ एते तु द्वीन्द्रियग्राह्याः अथ स्पर्शान्तशब्दकाः । वाहीकैकेन्द्रियग्राह्याः गुणत्यादृष्टभावनाः ॥ ९३ ॥ अतीन्द्रिया विभूना तु ये स्युबैशेषिका गुणाः । अकारणगुणात्पन्ना एते तु परिकीर्तिताः ॥ ९४ । अपाकजास्तु स्पर्शान्ता द्रवत्वं च तथाविधम् । महवेगगुरुत्वैकपृथक्त्वपरिमाणकम् ॥९५॥ स्थितिस्था- पक इत्येते स्युः कारणगुणोद्भवाः । संयोगश्च विभागश्च वेगश्चैते तु कर्मजाः ॥९६॥ स्प- शान्तपरिमाणकपृथक्त्वस्नेहशब्दके । भवेदसमवायित्व अथ वैशेषिके गुणे ॥ ९७ ॥ आ- त्मनः स्यानिमित्तस्वं उष्णस्पर्शगुरुत्वयोः । बंगेऽपि च द्रवत्वे च संयोगादिद्धये तथा ॥ =