पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । तद्धि प्रत्यक्षेण गृह्यते तस्य च रूपवत्त्वात्कर्मवत्त्वाच्च द्रव्यत्वम् तद्धि गन्धशून्यत्वान्न प्रभा. - षसिद्धिः तथापि पृथिव्यादिचतुथ्यमात्रवृत्तिजात्या सह द्रव्यत्वजातेः तुल्यव्यक्तित्वापत्तिः घटत्वकलशत्वयो- क्याहीकारेण यथा तुल्यव्यक्तिकत्वदोषो वारितः तथा ताटशजात्योरै क्य माजीकृत्यैव वारणीय इति द्रव्यत्वजा- तेर्गगनादिवृत्तित्वे उक्तयुक्तरसाधकत्वात् । मीमांसकमतमुपन्यस्य दूषयति । नन्विति ॥ तमः पदार्थ एवेल्य. लोक इत्याशङ्कायामाह । तद्धीति ॥ हि हेनौ । तथाच तमो यतश्चक्षुषा गृह्यते अतस्तमः पदार्थ इति ना- मञ्जूपा. च्छेदकतया पृथिवीवाम्बोश्च जातिसिद्धिप्रसंगात् । अथ पृथिव्यादिष्वनुभूयमानोऽनुगतो धर्मो भूतत्वमेवास्तु न द्रव्यत्वमिति चेदान्तोऽसि । नवद्रव्यसाधारणं कंचन धर्म भवानप्यनुमन्यते । सच गगनादिध्वयोग्यः पृथिव्यादिपु योग्य इति च भवताप्य कार्य किन्तु तदतिरिक्तं पृथिव्यादिचतुष्टयमात्रवृत्तिनं कमपि धर्मम जी- कुर्वाणो भवान् पृच्छते किमतिरिक्त कमपि धर्म प्रत्यक्षणानुभवसीति । एतेन मूर्तत्वमपि प्रत्याख्यातम् द्रव्यत्वाद्भेदेन तस्यानुपलब्धेः । यद्यपि स्पन्दत्वं कार्थमात्रबृत्तितयावश्यं कार्यतावच्छेदकं वाच्यम् तथापि तदवच्छिन्न कारणतावच्छेदकं न जातिरूपं किंत्वपकृष्टपरिमाणवत्त्वम् । यथा चापकृष्टत्वं मूर्तपरिमाणेष्वनुगतं तथा पारिमाण्डल्येति श्लोक व्याख्यानावसरे वक्ष्यते । नच स्पन्दसमवायिकारणतावच्छेदकमेव जातिरूप. मस्तु संयोगादिसमवायिकारणतावच्छेदकमन्यदास्तामिति वाच्यम् तत्रानुगतस्यैकस्य विनिगन्तुमशक्यत्वात् । तदेतत्सर्वमभिप्रेत्यैव वक्ष्यति जलवादीनां द्रव्यत्वसाक्षाद्वयाप्यत्वं मूर्तत्वमश्कृटपरिमाणवत्त्वमिति च प्र- न्थकृत । तर्हि द्रव्यं प्रति द्रव्यस्य प्रतिबन्ध ताया कि प्रतिवध्यतावच्छेदकमिति चेत् द्रव्यत्वमेव तस्यानायत्या बहुतरनित्यसाधारण्यऽपि क्षतेरभावात् । जन्यत्वं वा विशेष्यतां पूर्वोक्तसंबन्धत्रयस्य कार्यतावच्छेदकतावच्छेदकत्वं वास्तु । एवं चौक्तप्रतिबन्धकतावच्छेदकतया द्रव्यत्वजातिसिद्धिः पर निष्प्रत्यूहैवेत्यलमति जल्पनेन । दशमद्रव्यमिति । पृथिवीत्वादिशून्यद्रव्यमित्यर्थः । ननु तमसस्स- त्त्व एवं किं मान सत्वे वा कथं द्रव्यत्वं द्रव्यत्वे वा कुतः पृथिवीत्वादिशून्यत्त्वमित्याशङ्कात्रयं क. मेण वारयति । तद्धीत्यादिना ॥ तस्यात्र गन्धशून्यत्वादिति गन्धाभावस्य हेतुती तो घटगतगन्धप्रति- दिनकरीयम्. प्रतिबन्धकतावच्छेदकत्वे तु मूर्नवस्य तथात्वमादाय विनिगमनाविरहापत्तिः, द्रव्यत्वस्य प्रतिबन्धकतावच्छेद- कत्वं तु धर्मिग्राहकमानसिद्धम् न च तस्य गगनादिवृत्तिवे मानाभाव इति वाच्यं, भूतत्वेन तुल्यब्यक्तिक- त्वापत्त्या विनिगमनाविरहेण गगनादिपञ्चवृत्तित्वाभ्युपगमात्, न च भूतत्वेन तुल्यव्यक्तित्वचारणाय मनोबृ- त्तित्वमेव द्रव्यत्वे कल्प्यतां गरनादिवृत्तित्वकल्पने गौरवात् गगनादिवृत्तित्वकल्पनेऽपि मूर्तत्वेन सायवारणाय मनोवृत्तित्वस्यावश्यकत्वादिति वाच्यम् , तथा सति मूर्तत्वजात्या द्रव्यत्वस्य तुल्यव्यक्तित्वापत्तरिति ॥ ननु दशमद्रव्यस्य तमसस्सत्त्वान्नव द्रव्याणील्ययुक्तमित्यभिप्रायण मीमांसकः शङ्कते। नन्विति ॥ ननु तमसि माना- भावेन नोक्तमित्याशङ्कय तमस्साधकप्रत्यक्षप्रमाणमाह । तद्धीति ॥ तमो हीत्यर्थः । प्रत्यक्षेण चक्षुरिन्द्रिये- रापरुद्रीयम्. ‘णुवृत्तित्वेन न नित्यव्यावृत्तम् , न चेदं प्रतिबध्यतावच्छेदकं भूनन्वं परमाणुव्यावृत्तमेव स्वीकार्यमिति वाच्यम् , तथा सति पृथिवीत्वादिना सातपित्त्या तस्य जातित्वानुपपत्तेः । तथापि साकर्यस्य दोषत्वानुपगमेनैतदाभिहि- तम् । ननु द्रव्यत्वस्यापि प्रतिबन्धकतावच्छेदकत्वे भूतत्वमूर्तत्वाभ्यां विनिगमनाविरहतादवस्थ्यमत आह । द्रव्यत्वस्येति ॥ धर्मिग्राहकमानेति ॥ द्रव्यत्वसाधकानुमानेत्यर्थः । तथा च तस्य प्रतिबन्धकतानवच्छे- दकत्वे द्रव्यत्वमेव न सिद्धयेदिति क्लुप्तयोरेव परस्पर विनिगमनाविरहः न तु क्लप्तस्याक्लप्तेनेति भावः । साकर्यवारणायेति ॥ यद्यपि स्वमते साय न दोषः, तथापि तुष्यतु दुर्जन इति न्यायेन तस्य दोषत्वम.