पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/११०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( 104 ) •. शकुन्तला-तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः । त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन, न पुनस्तेऽपरिचयाद्धस्ताभ्याशमुपगतः । पश्चात्तस्मिन्नैव मया गृहीते सलिले कृतस्तेन प्रणयः । तदा त्वमित्थं प्रहसितोऽसि- सर्वः सगन्धेषु विश्वसिति, द्वाप्यत्रारण्यकाविति । राजा-एवमादिभिरात्मकार्यनिवर्तिनीनामनृतमयवाङ्मधुभिराकृष्यन्ते विषयिणः। गौतमी-महाभाग, नार्हस्येवं मन्त्रयितुम् । तपोवनसंर्धितोऽनभिज्ञोऽयं जनः कैतवस्य । राजा-तापसवृद्धे, स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः । प्रागन्तरिक्षगमनात्खमपत्यजात- मन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥ २२ ॥ शकुन्तला--( सरोषम् ) अनार्य, आत्मनो हृदयानुमानेन पश्यासे । क इदानीमन्यो धर्मकञ्चुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते ? राजा--( आत्मगतम् ) संदिग्धबुद्धिं मां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते । तथा ह्यनया मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयमप्रतिपद्यमाने । भेदाद्भुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरासनमिवातिरुषा स्मरस्य ॥ २३ ॥