पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( 112 ) राजा--(ध्यात्वा ) सखे, त्रायस्व माम् । विदूषकः-भोः, किमेतत् । अनुपपन्नं खल्वीदृशं त्वयि । कदापि सत्पुरुषाः शोकवक्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः। राजा-वयस्य, निराकारणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य बलवदशरणोऽस्मि । सा हि इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता मुहुस्तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे । पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मथि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥ ९ ॥ सानुमती- अहो, ईदृशी स्वकार्यपरता । अस्य संतापेनाहं रमे। विदूषकः-भोः, अस्ति मे तर्कः केनापि तत्रभवत्याकाशचारिणा नीतेति । राजा-कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत । मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिणीभिः सखी ते हृतेति मे हृदयमाशङ्कते। सानुमती--संमोहः खलु विस्मयनीयो न प्रतिबोधः । विदूषकः—यद्येवमन्ति खलु समागमः कालेन तत्रभवत्या । राजा-कथमिव ? विदूषकः-न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं द्रष्टुं पारयतः ।