(127) . चित्रलेखा-अहो, कथमुच्छ्वसितमात्रसंभावितजीविता अद्याप्येषा संज्ञां न प्रतिपद्यते । राजा--बलवत्र ते सखी परित्रस्ता । तथाहि- मन्दारकुसुमदाम्ना गुरुरस्याः सूच्यते हृदयकम्पः । मुहुरुच्छवसता मध्ये परिणाहवतोः पयोधरयोः ॥ ७ ॥ चित्रलेखा-(सकरुणम् ) सखि उर्वशि, पर्यवस्थापयात्मानम् । अनप्सरेव प्रतिभासि । राजा- मुञ्चति न तावदस्या भयकम्पः कुसुमकोमलं हृदयम् । सिचम्पान्तेन कथंचित्स्तनमध्योच्छवासिना कथितः ॥ ८॥ ( उर्वशी प्रत्यागच्छति) राजा-(सहर्षम् ) चित्रलेखे, दिष्टया वर्धसे । प्रकृतिमानपन्ना ते प्रियसखी। पश्य- आविर्भूते शशिनि तमसा मुच्यमानेव रात्रि- र्नैंशस्यार्चिर्हुतभुज इव च्छिन्नभूयिष्ठधूमा । मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा गङ्गा रोधःपतनकलुषा गच्छतीव प्रसादम् ॥ ९ ॥ चित्रलेखा-सखि उर्वशि, विस्रब्धा भव । आपन्नानुकम्पिना महाराजेन प्रतिहताः खलु ते त्रिदशपरिपन्थिनो हताशा दानवाः । उर्वशी-(चक्षुषी उन्मील्य ) किं प्रभावदर्शिना महेन्द्रेणा- भ्युपपन्नास्मि ? चित्रलेखा-न महेन्द्रेण । महेन्द्रसदृशानुभावेन अनेन राजर्षिणा पुरूरवसा ।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१३३
एतत् पृष्ठम् परिष्कृतम् अस्ति