( 150 )
Two music masters at the court of King Agnimitra, each trying to prove his superiority over the other, गणदासः--कामं खलु सर्वस्यापि कुलविद्या बहुमता । न पुनरस्माकं नाट्यं प्रति मिथ्यागौरवम् । तथा हि- देवानामिदमामनन्ति मुनयः शान्तं क्रतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा । त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् ॥ ४ ॥ बकुलावलिका-( उपेत्य ) आर्य,वन्दे। गणदासः-भद्रे, चिरं जीव । बकुलावलिका-आर्य, देवी पृच्छति-अप्युपदेशग्रहणे नाति- क्लेशयति वः शिष्या मालविकेति । गणदासः-भद्रे, विज्ञाप्यतां देवी परमनिपुणा मेधाविनी चेति । किंबहुना ? यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै । तत्तद्विशेषकरणात्प्रत्युपदिशतीव मे बाला ॥ ५ ॥ बकुलावलिका- आत्मगतम्।) अतिक्रामन्तीमिवेरावतीं पश्यामि। ( प्रकाशम् ) कृतार्थेदानीं वः शिष्या, यस्या गुरुजन एवं तुष्यति । गणदासः-भद्रे, तद्विधानामसुलभत्वात्पृच्छामि–कुतो देव्या तत्पात्रमानीतम् ? बकुलावलिका-अस्ति देव्या वर्णावरो भ्राता वीरसेनो नाम । स भर्त्रा नर्मदातीरेऽन्तपालदुर्गे स्थापितः । तेन शिल्पाधिकारे योग्येयं दारिकेति भणित्वा भगिन्या देव्या उपायनं प्रेषिता ।