( 153 ) गणदासः-सोऽहममुना हरदत्तेन प्रधानपुरुषसमक्षमयं मे न पादरजसापि तुल्य इत्यधिक्षिप्तः । हरदत्तः-देव, अयमेव प्रथमं परिवादकरः । अत्रभवतः किल मम च समुद्रपल्वलयोरिवान्तरमिति । तत्रभवानिमं मां च शास्त्रे प्रयोगे च विमृशतु । देव एव नौ विशेषज्ञः प्राश्निकः । विदूषकः-समर्थं प्रतिज्ञातम् । गणदासः-प्रथमः कल्पः । अवहितो देवः श्रोतुमर्हति । राजा--तिष्ठ यावत् । पक्षपातमत्र देवी मन्यते । तदम्याः पण्डितकौशिकीसहितायाः समक्षमेव न्याय्यो व्यवहारः । विदूषकः-सुष्ठु भवान्भणति । आचार्यौँ—यद्देवाय रोचते। राजा-मौद्गल्य, अमुं प्रस्तावं निवेद्य पण्डितकौशिक्या सार्धमाहूयतां देवी। कञ्चुकी-यदाज्ञापयति देवः । (इति निष्कम्य सपरिव्राजिकया देव्या सह प्रविष्टः ।) इत इतो भवती । धारिणी-(परिव्राजिकां विलोक्य ।) भगवति, हरदत्तस्य गणदा- सस्य च संरम्भे कथं पश्यसि । परिव्राजिका–अलं स्वपक्षावसादशङ्कया । न परिहीयते प्रतिवादिनो गणदासः । धारिणी-यद्यप्येवं राजपरिग्रहोऽस्य प्रधानत्वमुपहरति । परिव्राजिका--अयि, राज्ञीशब्दभाजनमात्मानमपि चिन्तयतु भवती । पश्य ।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१५९
एतत् पृष्ठम् परिष्कृतम् अस्ति