( 156 ) हरदत्तः-परमभिमतं नः । गणदासः-देवि, एवं स्थितम् । देवी-यदा पुनर्मन्दमेधाः शिष्या उपदेशं मलिनयन्ति; तदा- चार्यस्य दोषो नु। राजा—देवि, एवमापठ्यते । विनेतुरद्रव्यपरिग्रहोऽपि बुद्धिलाघवं प्रकाशयतीति । देवी-( स्वगतम् ) कथमिदानीम् । ( गणदासं विलोक्यप्रकाशम्।) अलमार्यपुत्रस्योत्साहकारणं मनोरथं पूरयित्वा । विरम निरर्थकादारम्भात् । विदूषकः-सुष्ठु भवती भणति । भो गणदास, संगीतपदं लब्ध्वा सरस्वत्युपायनमोदकान्खादतः किं ते सुखनिग्रहेण विवादेन । गणदासः—सत्यसमयमेवार्थों देवीवाक्यस्य । श्रूयतामवसरप्राप्तमिदानीम् । लब्धास्पदोऽस्मीति विवादभीरो- स्तितिक्षमाणस्य परेण निन्दाम् । यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ॥ १७ ॥ देवी-अचिरोपनीतायां शिष्यायां पुनः प्रतिष्ठितस्योपदेशस्यान्याय्यं प्रकाशनम् । गणदास: -अत एव मे निर्बन्धः । देवी-तेन हि द्वावप्युपदेशं भगवत्यै दर्शयतम् । परिव्राजिका—देवि, नैतन्न्याय्यम् । सर्वज्ञास्याप्येकाकिनो निर्णयाभ्युपगमो दोषाय !
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१६२
एतत् पृष्ठम् परिष्कृतम् अस्ति