(167) शरकाण्डपाण्डुगण्डस्थलेयमाभाति परिमिताभरणा। माधवपरिणतपत्रा कतिपयकुसुमेव कुन्दलता ॥ ८ ॥ विदूषकः-एषापि भवानिव मदनव्याधिना परिमृष्टा भविष्यति। राजा-सौहार्दमेवं पश्यति । मालविका-अयं स सुकुमारदोहदापेक्षी अगृहीतकुसुमनेपथ्य उत्कण्ठिताया ममाशोकोऽनुकरोति । यावदस्य प्रच्छायशीतले शीतले शिलापट्टके निषण्णात्मानं विनोदयामि । विदूषकः-श्रुतं भवता । उत्कण्ठितास्मीति तत्रभवती मन्त्रयति। राजा-नैतावता भवन्तं प्रसन्नतर्कं मन्ये । कुतः । वोढा कुरबकरजसां किसलयपुटभेदशीकरानुगतः । अनिमित्तोत्कण्ठामपि जनयति मनसो मलयवातः ॥ ९ ॥ (मालविकोपविष्टा ।) राजा-सखे; इतस्तावत् । आवां लतान्तरितौ भवावः । विदूषकः-इरावतीमिवादूरे समर्थये। राजा-नहि कमलिनी . लब्ध्वा. ग्राहमपेक्षते मतङ्गजः । ( इति विलोकनन्स्थितः ।) मालविका--हृदय, निरवलम्बनादतिभृमिलङ्घिनस्ते मनोरथाद्विरम । किं मामायास्य । ( विदूषको राजानमपेक्षते ।) राजा-, पश्य वामत्वं स्नेहस्य । , औत्सुक्यहेतुं विवृणोषि तत्त्वं तत्त्वावबोधैकरसो न तर्कः । तथापि रम्भोरु करोमि लक्ष्य- मात्मानमेषां परिदेवितानाम् ॥ १० ॥ राजा--प्रिये,
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१७३
एतत् पृष्ठम् परिष्कृतम् अस्ति