पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( 172 ) पथि नयनयोः स्थित्वा स्थित्वा तिरोभवति क्षणा- त्सरति सहसा बाह्वोर्मध्यं गतापि सखी तव । मनसिजरुजा क्लिश्यत्येवं समागममायया कथमिव सखे विस्रब्धं स्यादिमां प्रति मे मनः ॥ ११ ॥ बकुलावलिका-सखि, बहुशः किल भर्ता विप्रलब्धः । तावत्वयात्मा विश्वसनीयः क्रियताम् । मालविका-सखि, मम पुनर्मन्दभाग्यायाः स्वप्नसमागमोऽपि भर्तुर्दुर्लभ आसीत् । बकुलावलिका-भर्ता कथयत्वस्या उत्तरम् । राजा- उत्तरेण किमात्मैव पञ्चबाणाग्निसाक्षिकम् । तव सख्यै मया दत्तो न सेव्यः सेविता रहः ॥ १२ ॥ बकुलावलिका–अनुगृहीताः स्मः । विदूषकः-(परिक्रम्य।) बकुलावलिके, एष बालाशोकवृक्षस्य पल्लवानि लङ्घयति हरिणः । निवारयाम एनम् । बकुलावलिका -तथा । राजा-वयस्य, एवमेवास्मिन्रक्षणक्षणेऽवहितेन त्वया भवितव्यम् ।। विदूषकः-एवमपि गौतमः संदिश्यते । बकुलावलिका-(परिक्रम्य ।) आर्थ गौतम, अहमप्रकाशे तिष्ठामि । त्वं द्वाररक्षको भव । विदूषकः -युज्यते । (निष्कान्ता बकुलावलिका।) विदूषकः-इमं तावत्स्फटिकस्तम्भमाश्रितो भवामि । (इति तथा कृत्वा ।) अहो सुखस्पर्शता शिलाविशेषस्य । ( इति निद्रायते ।)