.. रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते । परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥ ८५ ॥ अपशोकमनाः कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभिः । स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥ ८६ ॥ मरणं प्रकृतिः शरीरिणां विकृति वितमुच्यते बुधैः । क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥ ८७ ।। अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् । स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ ८८ ॥ म्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा । विरहः किमिवानुतापयेद्वद बायैर्विषयैर्विपश्चितम् ॥ ८९ ॥ न पृथग्जनवच्छुचो वशं वशिनामुत्तम गन्तुमर्हसि । द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः ॥९० ॥ -रघुवंशे अटमः सर्गः। रतिविलापः Lamentation of Rati when her husband, Cupid, the God of love was burnt to ashes by the anger of God Shiva. अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता । विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् ॥ १ ॥ अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने । न विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्तदर्शनम् ॥ २ ॥ अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः । ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥ ३ ॥ .
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१९०
एतत् पृष्ठम् परिष्कृतम् अस्ति