ते चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ । विभज्य परत्र तं मया सहितः पास्यति ते स वान्धवः ॥३७॥ लोकविधौ च माधव स्मरमुद्दिश्य विलोलपल्लवाः । वपेः सहकारमञ्जरी: प्रियचूतप्रसवो हि ते सखा ॥ ३८ ॥ -कुमारसंभवे चतुर्थः सर्गः । सीताविलापः Lamentation of Sita consequent on her abandonment. अथ व्यवस्थापितवाक्कथंचित्सौमित्रिरन्तर्गतबाष्पकण्ठः । त्पातिक मेघ इवाश्मवर्षम महीपतेः शासनमुज्जगार ॥ १३ ॥ तोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना । मूर्तिलाभप्रकृतिं धरित्री लतेव सीता सहसा जगाम ॥ ५४ ॥ ईक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात्पतिरार्यवृत्तः । ते क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावत् ॥५५॥ | लुप्तसंज्ञा न विवेद दुःख प्रत्यागतासुः समतप्यतान्तः । स्याः सुमित्रात्मजयत्नलब्धो मोहादभूत्कष्टतरः प्रबोधः ॥१६॥ चावद्भर्तुरवर्णमार्या निराकरिष्णोर्वृजिनादृतेऽपि । त्मानमेव स्थिरदुःखभाजं पुनः पुनर्दुष्कृतिनं निनिन्द ॥५७ ।। श्वास्य रामावरजः सतीं तामाख्यातवाल्मीकिनिकेतमार्गः । घ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि क्षमस्वेति बभूव नम्रः ॥१८॥ सीता तमुत्थाप्य जगाद वाक्यं प्रीतास्मि ते सौम्य चिराय जीव । डैजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वम् ॥१९॥
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१९४
एतत् पृष्ठम् परिष्कृतम् अस्ति