पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२७२

एतत् पृष्ठम् परिष्कृतम् अस्ति

(25) Description of the view of the Godâvari and her surroundings and Panchavati from the celestial car of Râma. क्वचित्पथा संचरते सुराणां क्वचिद्धनानां पततां क्वचिच्च । यथाविधो मे मनसोऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥ १९॥ असौ महेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः।। आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते ॥ २० ॥ करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या । आमुञ्चतीवाभरणं द्वितीयमुद्भिन्नविद्युबलयो घनस्ते ॥ २१ ॥ अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि । अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ॥२२॥ सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ २३ ॥ त्वं रक्षसा भीरु यतोऽपनीता तं मार्गमेताः कृपया लता मे । अदर्शयन्वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥ २४ ॥ मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणम्यामुत्पक्ष्मराजीनि विलोचनानि ॥२५॥ एतद्गिरेर्माल्यवतः पुरस्तादाविर्भवत्यम्बरलेखि शृङ्गम् । नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥ २६ ॥ गन्धश्च धाराहतपल्वलानां कादम्बमर्धोद्गतकेसरं च । स्निग्धाश्च केकाः शिखिनां बभूवुर्यस्मिन्नसह्यानि विना त्वया मे २७॥ पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु तवोपगृढम् । गुहाविसारीण्यतिवाहितानि मया कथंचिंद्घनगर्जितानि ॥ २८ ॥ ..