पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( 72 ) इदं किलाव्याजमनोहरं वपु- स्तपःक्षमं साधयितुं य इच्छति । ध्रुवं स नीलोत्पलपत्रधारया समिल्लतां छेत्तुमृषिर्व्यवस्यति ॥ १६ ॥ भवतु । पादपान्तर्हित एव विस्रब्धं तावदेनां पश्यामि । ( इति तथा करोति ।) शकुन्तला-सखि अनसूये, अतिपिनद्धेन वल्कलेन प्रियंवदया नियन्त्रितास्मि । शिथिलय तावदेतत् । प्रियंवदा—( सहासम् ) अत्र पयोधरविस्तारयितृ आत्मनो यौव- नमुपालभस्व । अनसूया --तथा । ( इति शिथिलयति।) राजा--काममननुरूपमन्या क्यसो वल्कलं, न पुनरलंकारश्रियं न पुष्यति । कुतः ? सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ १७ ॥ शकुन्तला-( अग्रतोऽवलोक्य ) एष वातेरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः । यावदेनं संभावयामि । ( इति परिक्रामति । ) प्रियंवदा–हला शकुन्तले, अत्रैव तावन्मुहूर्तं तिष्ठ, यावत्त्वयोपगतया लतासनाथ इवायं केसरवृक्षकः प्रतिभाति । शकुन्तला-अतः खलु प्रियंवदासि त्वम् ।