पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(78) .. राजा-प्रियमपि तथ्यमाह शकुन्तलां प्रियंवदा । अस्याः खलु अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू । कुमुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ १८ ॥ अनसूया-हला शकुन्तले, इयं स्वयंवरवधूः सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमालिका । एनां विस्मृतवत्यसि । शकुन्तला--तदात्मानमपि विस्मरिष्यामि । ( लतामुपेत्यावलोक्य च ) हला, रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः । नवकुसुमयौवना वनज्योत्स्ना, स्निग्धपल्लवतयोपभोगक्षम: सहकारः । ( इति पश्यन्ती तिष्ठति । ) प्रियंवदा-अनसूये, जानासि कि शकुन्तला वनज्योत्स्नामति- मात्रं पश्यतीति? अनसूया-न खलु विभावयामि । कथय । प्रियंवदा-यथा वनज्योत्स्नानुरूपेण पादपेन संगता, अपि नामैवमहमप्यात्मनोऽनुरूपं वरं लभेयेति । शकुन्तला-एष नूनं तवात्मगतो मनोरथः । ( इति कलशमावर्जयति ।) राजा-अपि नाम कुलपतरियमसवर्णक्षेत्रसंभवा स्यात्----अथवा कृतं संदेहेन--- असंशयं क्षत्रपरिग्रहसमा यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥ १९ ॥ तथापि तत्त्वत एनामुपलप्स्ये।