( 93 ) ( इति परिक्रामति ।) सख्यौ–हला शकुन्तले, अवसितमण्डनासि । परिध सांप्रतं क्षौमयुगुलम् । (शकुन्तलोत्थाय परिधत्ते ।) गौतमी-जाते, एष त आनन्दपरिवाहिणा चक्षुषा परिष्वमान इवं गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व । शकुन्तला-( सव्रीडम् ) तात, वन्दे । काश्यपः-वत्से, ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव । .सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥ ६ ॥ गौतमी-भगवन्, वरः खल्वेषः, नाशीः । काश्यपः-वत्से, इतः सद्योहताग्नीन्प्रदक्षिणीकुरुष्व । (सर्वे परिकामन्ति ।) काश्यपः-(ऋक्छन्दसाशास्ते । ) अमी वेदिं परितः क्लृप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः । अपघ्नन्तो दुरितं हव्यगन्धै- र्वैतानास्त्वां वह्नयः पावयन्तु ॥ ७ ॥ प्रतिष्ठस्वेदानीम् । ( सदृष्टिक्षेपम् ) व ते शार्ङ्गरवमिश्राः । ( प्रविश्य ) शिष्याः-भगवन् , इमे स्मः । काश्यपः-भगिन्यास्ते मांर्गमादेशय । शार्ङ्गरवः-इत इतो भवती।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३३९
एतत् पृष्ठम् परिष्कृतम् अस्ति