पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( 95 ) .. उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः। अपमृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव वनलताः ॥ ११ ॥ शकुन्तला-(स्मृत्वा ) तात, लताभागनीं वनज्योत्स्नां तावदामन्त्रयिष्ये। काश्यपः-अवैमि ते तस्यां सोदर्यस्नेहम् । इयं तावद्दक्षिणेन । शकुन्तला—( लतामुपेत्य ) वनज्योत्स्ने, चूतसंगतापि मां प्रत्यालिङ्गेतो गताभिः शाखाबाहाभिः । अद्यप्रभृति दूरपरिवर्तिनी भविष्यामि। काश्यपः- "संकल्पितं प्रथममेव मया तवार्थे भर्तारमात्मसदृशं सुकृतर्गता त्वम् । चूतेन संश्रितवती नवमालिकेय- मस्यामहं त्वयि च संप्रति वीतचिन्तः ॥ १२ ॥ इतः पन्थानं प्रतिपद्यस्व । शकुन्तला-(सख्यौ प्रति ) हला, एषा द्वयोर्युवयोर्हस्ते निक्षेपः । सख्यौ-अयं जनः कस्य हस्ते समर्पितः । (बाष्पं विहरतः।) काश्यपः-अनसूये, अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरी- कर्तव्या शकुन्तला। (सर्वे परिकामन्ति।) शकुन्तला-तात, एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदानघप्रसवा भवति तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ । काश्यप-नेदं विस्मरिष्यामः।