पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( इति प्रस्थिताः।) शकुन्तला—हम्, अमुना तावत् कितवेन विप्रलब्धास्मि यूयमपि मां परित्यजथ ? ( इत्यनुप्रतिष्ठते।) गौतमी--( स्थित्वा) वत्स शार्ङ्गरव, अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुन्तला । प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु ? शार्ङ्गरवः- (सरोष निवृत्य ) किं पुरोभागे स्वातन्त्र्यमवलम्बसे ? (शकुन्तला भीता वेपते।) शार्ङ्गरवः -शकुन्तले यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया । अथ तु वेत्सि शुचि व्रतमात्मनः पतिकुले तव दास्यमपि क्षमम् ॥ २७ ॥ त्तिष्ठ । साधयामो वयम् । राजा--भोस्तपस्विन्, किमत्रभवतीं विप्रलभसे । कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव । वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥ २८ ॥ शार्ङ्गरवः--यदा तु पूर्ववृत्तमन्यासङ्गाद्विस्मृतो भवान् , तदा कथमधर्मभीरूता? राजा--भवन्तमेवात्र गुरुलाघवं पृच्छामि । मूढः स्यामहमेषा वा वदन्मिथ्येति संशये । दारत्यागी भवाम्याहो परस्त्रस्पर्शपांसुलः ॥ २९ ॥ पुरोहितः--(विचार्य ) यदि तावदेवं क्रियताम् ।