( 115 ) राजा-अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्यतामयं जनः पुनदर्शनेन । (प्रविश्यापटीक्षेपेण चित्रफलकहस्ता।) चतुरिका-इयं चित्रगता भट्टिनी । (इति चित्रफलकं दर्शयति ।), विदूषकः-साधु वयस्य, मधुरसंस्थानदर्शनीयो भावानुप्रवेश स्खलतीव मे दृष्टिनिम्नोन्नतप्रदेशेषु । सानुमती-अहो एषा राजर्षेर्निपुणता । जाने सख्यग्रतो मे वर्तत इति । राजा- यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा । तथापि तस्या लावण्यं रेखया किंचिदन्वितम् ॥ १४ ॥ सानुमती-सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च । विदूषकः-भोः, इदानी तिस्त्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः । कतमात्र तत्रभवती शकुन्तला ? सानुमती--अनभिज्ञः खल्वीदृशस्य रूपस्य मोहदृष्टिरयं जनः । राजा--त्वं तावत्कतमां तर्कयसि ? विदूषकः--तर्कयामि यैषा शिथिलकेशबन्धनोद्वान्तकुमुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां बाहाभ्यामवसेक- स्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्तेवालिखिता सा शकुन्तला, इतरे सख्याविति । राजा-निपुणो भवान् । अस्त्यत्र मे भावचिह्नम् । स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः । अश्रु च कपोलपतितं दृश्यमिदं वर्तिकोच्छ्वासात् ॥ १५ ॥
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३६१
एतत् पृष्ठम् परिष्कृतम् अस्ति