( 119 ) Reunion of Dushyadata. & Shakuntala at the hermitage of Maricha. राजा--(कर्ण दत्त्वा ) अभूमिरियमविनयस्य । को नु खल्वेष निषिव्यते ? (शब्दानुसारेणावलोक्य, सविस्मयम् ) अये, को नु खल्वय- मनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बाल: ? अर्धपीतस्तनं मातुरामर्द क्लिष्टकेसरम् । प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥ १४ ॥ (ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः।) बाला--जृम्भस्व, जृम्भस्व सिंह, दन्तांस्ते गणयिष्ये । प्रथमा--अविनीत, किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रक- रोषि । हन्त, वर्धते तव संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि । राजा--किं न खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः । नूनमनपत्यता मां वत्सलयति । द्वितीया-एषा खलु केसरिणी त्वां लङअघयिष्यति यदि तस्याः पुत्रकं न मुञ्चसि । बाल:-(सस्मितम् ) अहो, बलीयः खलु भातोऽस्मि । (इत्यधरं दर्शयति ।) राजा- महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे । स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः ॥ १५ ॥ प्रथमा-वत्स, एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि ।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३६५
एतत् पृष्ठम् परिष्कृतम् अस्ति