(124) राजा-(शकुन्तला विलोक्य ) अये, सेयमत्रभवती शकुन्तला ! यैषा- वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः । अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥ २१ ॥ शकुन्तला-(पश्चात्तापविवर्ण राजानं दृष्ट्वा ) न खल्वार्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति ? बाल:-(मातरमुपेत्य ) मातः, एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति । राजा-प्रिये, क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तम् , यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि । शकुन्तला-(आत्मगतम् ) हृदय, आश्वसिहि, आश्वसिहि । परित्यक्तमत्सरेणानुकम्पितास्मि देवेन । आर्यपुत्रः खल्वेषः । राजा-प्रिये, स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमा उपरागान्ते शशिनः समुपगतो रोहिणीयोगः ॥ २२ ॥ शकुन्तला-जयतु जयत्वार्यपुत्रः । (इत्यर्धोक्ते बाष्पकण्ठी विरमति।) राजा-सुन्दरि, बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया । यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम् ॥ २३ ॥ बालः-मातः, क एषः । शकुन्तला---वत्स, ते भागधेयानि पृच्छ । n
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३७०
एतत् पृष्ठम् परिष्कृतम् अस्ति