( 141 ) ( अनन्तरे चर्चरी।) अहं त्वां पृच्छामि आचक्ष्व गजवर ललितप्रहारेण नाशिततरुवर । दूरविनिर्जितशशधरकान्ति- र्दृष्टा प्रिया त्वया संमुखं यान्ती ॥ ४५ ॥ ( पदद्वयं पुरत उपसृत्य।) • मदकल युवतिशशिकला गजयूथप यूथिकाशबलकेशी । स्थिरयौवना स्थिता ते दूरालोके सुखालोका ॥ ४६ ।। (सहर्षमाकर्ण्य । ) अहह, अनेन प्रियोपलब्धिशंसिना मन्द्रकण्ठगर्जितेन समाश्वसितोऽस्मि । साधर्म्याद्भूयसी मे त्वयि प्रीतिः । मामाहुः पृथिवीभृतामधिपतिं नागाधिराजो भवा- नव्युच्छिन्नपृथुप्रवृत्ति भवतो दानं ममाप्यर्थिषु । स्त्रीरत्नेषु ममोर्वशी प्रियतमा यूथे तवेयं वशा सर्वं मामनु ते प्रियाविरहजां त्वं तु व्यथां मानुभूः ।। ४७ ।। मुखमास्तां भवान् (द्विपदिकया परिक्रम्यावलोक्य च । ) अये, अयमसौ सुरभिकंदरो नाम विशेषरमणीयः सानुमान् । प्रियश्चायमप्सरसाम् । अपि नाम सुतनुरस्योपत्यकायामुपलभ्येत । ( पारेक्रम्यावलोक्य च । ) कथमन्धकारः । भवतु विद्युत्प्रकाशेनावलोकयामि । कथं मदीयेर्दुरितपरिणाममघोदयोऽपि शतन्हदाशून्यः : संवृत्तः । तथापि शिलोच्चयमेनमपृष्ट्वा न निवर्तिष्ये । (अनन्तर खण्डिकः ।) प्रसृतखरखुरदारितमेदिनिर्वनगहनेऽविचलः । परिसर्पति पश्यत लीनो निजकार्योद्युक्तः कोलः ॥ ४८ ।।
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३९०
एतत् पृष्ठम् परिष्कृतम् अस्ति