( 157 ) देवी-(जनान्तिकम्।) मूढे परिव्राजिके, मां जाग्रतीमपि सुप्तामिव करोषि । ( इति सासूयं परावर्तते ) ( राजा देवीं परिव्राजिकायै दर्शयति ।) परिव्राजिका- अनिमित्तमिन्दुवदने किमत्र भवतः पराङ्मुखी भवसि । प्रभवन्त्योऽपि हि भर्तृषु कारणकोपाः कुटुम्बिन्यः ॥ १८ ॥ विदूषकः--ननु सकारणमेव । आत्मनः पक्षो रक्षितव्यः । ( गणदासं विलोक्य ) विष्टया कोपव्याजेन देव्या परित्रातो भवान् । सुशिक्षितोऽपि सर्व उपदेशेन निष्णातो भवति । गणदासः-देवि, श्रूयताम् । एवं जनो गृह्णाति । तदिदानीम् विवादे दर्शयिष्यामि क्रियासंक्रान्तिमात्मनः । यदि मां नानुजानासि परित्यक्तोऽस्म्यहं त्वया ॥ १९ ॥ (आसनादुत्थातुमिच्छति ।) देवी-(स्वगतम् ) का गतिः । प्रभवत्याचार्यः शिष्यजनय । गणदासः-चिरमपदे शङ्कितोऽस्मि । (राजानमवलोक्य ) अनुज्ञातं देव्या । तदाज्ञापयतु देवः कस्मिन्नभिनयवस्तुन्युपदेशं दर्शयिष्यामि । राजा यदादिशति भगवती । परिव्राजिका--किमपि देव्या मनसि वर्तते । ततः शङ्कितास्मि देवी-भण विस्त्रव्धम् । प्रभवति प्रभुरात्मनः परिजनस्य । राजा--मम चेति ब्रूहि । देवी-भगवति, भणेदानीम् । परिव्राजिका--देव, शर्मिष्ठायाः कृतिं चतुष्पदोत्थं छलिकं दुष्प्रयोज्यमुदाहरन्ति । तत्रैकार्थसंश्रयमुभयोः प्रयोग पश्यामि । तावता ज्ञायत एवात्रभवतोरुपदेशान्तरम् । ..
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४०३
एतत् पृष्ठम् परिष्कृतम् अस्ति