(160) (प्रविश्य।) गणदासः--देव, शर्मिष्ठायाः कृतिर्लयमध्या चतुष्पदास्ति । तस्याश्चतुर्थवस्तुनः प्रयोगमेकमनाः श्रोतुमर्हति देवः । राजा-आचार्य, बहुमानादवहितोऽस्मि । (निष्क्रान्तो गणदासः ।) राजा-(जनान्तिकम् । ) वयस्य, नेपथ्यपरिगतायाश्चक्षुर्शनसमुत्सुकं तस्याः । संहर्तुमधीरतया व्यवसितमिव मे तिरस्करिणीम् ॥ १ ॥ विदूषकः--(अपवार्य ।) उपस्थितं नयनमधु संनिहितमक्षिकं च । तदप्रमत्त इदानीं पश्य । (ततः प्रविशत्याचाविश्यमाणाङ्गसौष्ठवा मालविका।) विदूषकः-( जनान्तिकम् । ) पश्यतु भवान् । न खल्वस्याः प्रतिच्छन्दात्परिहीयते मधुरता । राजा-(अपवार्य । ) वयस्य, चित्रगतायामस्यां कान्तिविसंवादशक्ति मे हृदयम् । संप्रति शिथिलसमाधिं मन्ये येनेयमालिखिता ॥ २ ॥ गणदास:--वत्से. -वत्से, मुक्तसाध्वसा सत्त्वस्था भव । राजा-(आत्मगतम् । ) अहो सर्वस्थानानवद्यता रूपविशेषस्य । तथाहि । दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः संक्षिप्तं निविडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव । मध्यः पाणिमितो नितम्बि जघनं पादावरालाङ्गुली छन्दो नर्तयितुर्यथैव मनसि श्लिष्टं तथास्या वपुः ॥ ३॥
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४०६
एतत् पृष्ठम् परिष्कृतम् अस्ति