पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( 181 ) मालविका-(उपगानं कृत्वा चतुष्पदवस्तु गायति।) दुर्लभः प्रियो मे तस्मिन्भव हृदय निराश- महो अपाङ्गो मे परिस्फुरति किमपि वामः । एष स चिरदृष्टः कथं पुनरुपनेतव्यो नाथ मां पराधीनां त्वयि परिगणय सतृष्णाम् ॥ ४ ॥ (ततो यथारसमभिनयति ।) विदूषकः— (जनान्तिकम् ।) भो; चतुष्पदवस्तुकं द्वारीकृत्य त्वय्युपस्थापित आत्मा तत्रभवत्या । राजा-सखे, एवमेव ममापि हृदयम् । अनया खलु जनमिममनुरक्तं विद्धि नाथेति गेये वचनमभिनयन्त्याः स्वाङ्गनिर्देशपूर्वम् । प्रणयगतिमदृष्ट्वा धारिणीसंनिकर्षा- दहमपि सुकुमारप्रार्थनाव्याजमुक्तः ॥ ५ ॥ ( मालविका गीतान्ते निष्क्रमितुमारब्धा ।) विदूषकः-भवति, तिष्ठ किंचित् । वो विस्मृतः कर्मभेदः । तं तावत्प्रक्ष्यामि। गणदासः-भद्रे, उपदेशविशुद्धा यातुमर्हसि । ( मालविका निवृत्य स्थिता।) राजा--(आत्मगतम् । ) अहो, सर्वास्ववस्थासु चारुता शोभा- न्तरं पुष्यति । तथा हि । वामं संधिस्तिमितवलयं न्यस्य हस्तं नितम्बे कृत्वा श्यामाविटपसदृशं स्त्रस्तमुक्तं द्वितीयम् । पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं नृत्तादस्याः स्थितमतितरां कान्तमृज्वायतार्धम् ॥ ६॥ , ११