( 188 ) विदूषकः-सांप्रतं भवतो निःसंशयं भविष्यति । एषार्पितमदन संदेशा विविक्ते एनां बकुलावसिकोपस्थिता । राजा-अपि स्मरेदसावस्मदभ्यर्थनाम् । विदूषकः --किमिदानीमेषा दास्या दुहिता तव गुरुकं संदेशं विस्मरति । अहं तावन्न विस्मरामि । (प्रविश्य चरणालंकारहस्ता।) बकुलावलिका-अपि सुखं सख्याः । मालविका-अहो बकुलावलिका। सखि, स्वागतं ते । उपविश । बकुलावालिका--(उपविश्य । ) सखि, त्वमिदानी योग्यतया नियुक्ता । तस्मादेकं चरणमुपनय । यावत्सालक्तकं सनूपुरं च करोमि। मालविका-(आत्मगतम् ।) हृदय, सुखितयालमुपस्थितोऽयं, विभव इति । कथमिदानीमात्मानं मोचयेयम् । अथवेदानीमेतदेव मृत्युमण्डनं मे भविष्यति । बकुलावलिका—किं विचारयसि । उत्सुका खल्वस्य तपनीयाशोकस्य मुकुलोद्गमे देवी। राजा-कथमशोकदोहदानिमित्तोऽयमारम्भः । विदूषकः-किंनु खलु जानासि त्वम् । मम कारणाद्देवी मामन्तःपुरनेपथ्येन-योजयिष्यतीति । मालविका-सखि, मर्षय तावदेनम् । (इति पादमुपहरति ।)- बकुलावलिका-अयि, शरीरमसि मे । (इति नाट्येन चरणसंस्कारमारभते ।)
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४१४
एतत् पृष्ठम् परिष्कृतम् अस्ति