पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( 37 ) राजा-तेन ह्यनतिक्रमणीयानि श्रेयांसि । प्रदक्षणीकृत्य भगवन्तं गन्तुमिच्छामि । मातलि:-प्रथमः कल्पः । ( नाट्येनावतीर्णौ ।) राजा-(सविस्मयम् ।) उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः । अभूतलस्पर्शतयानिरुद्धत- स्तवावतीर्णोऽपि रथो न लक्ष्यते ॥ १० ॥ मातलि:-एतावानेव शतक्रतोरायुष्मतश्च विशेषः । राजा-मातले, कतमस्मिन्प्रदेशे मारीचाश्रमः । मातलि:-( हस्तेन दर्शयन् ।) वल्मीकाग्रनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः । अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥ ११ ॥ राजा-नमस्ते कष्टतपसे । मातलि:-(संयतप्रग्रहं रथं कृत्वा । ) महाराज, एतावदितिपरि- वर्धितमन्दारवृक्ष प्रजापतेराश्रमं प्रविष्टौ स्वः । राजाः-स्वर्गादधिकतरं निर्वृतिस्थानम् । अमृतहदमिवावगा- ढोऽस्मि । मातलिः—(स्थं स्थापयित्वा।) अवतरत्वायुष्मान् ।