पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( 196 ) शिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥ ५. २८ ॥ मनोरथानामतटप्रपाताः ॥ ६. १० ॥ स्रोतोवहां पथि निकामजलामतत्यि जातः सखे प्रणयवान्मृगतृष्णिकायाम् ॥ ६. १६ ॥ हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥ ६. २८ ॥ ज्वलति चलितेन्धनोऽग्नि- र्विप्रकृतः पन्नगः फणां कुरुते । प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते जन्तुः ॥ ६. ३१ ।। किं वाभविष्यदरुणस्तमसां विभेत्ता तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥ ७. ४ ॥ स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥ ७. २४ ॥ गण्डस्योपरि पिटिका संवृत्ता। कुतः किल स्वयमक्षिणी आकुलीकृत्याश्रुकारणं पृच्छसि । सर्वः कान्तमात्मीयं पश्यति । पिण्डखर्जूरैरुद्वैजितस्य तिन्तिण्यामभिलाषो भवेत् । विकारं खलु परमार्थतोऽज्ञात्वानारम्भः प्रतीकारस्य । स्निग्धजनसंविभक्तं खलु दुःखं सह्यवेदनं भवति । सागरमुज्झित्वा कुत्र वा महानद्यवतरति । क इदानीं सहकारमन्तरेण पल्लवितामतिमुक्तलतामर्हति । को वा शरीरनिर्वापयित्रीं शारदीं ज्योस्त्नां पटान्तेन निवार- यिष्यति। अहो विध्नवत्यः प्रार्थितार्थसिद्धयः ।