( 200 ) निसर्गनिपुणाः स्त्रियः । न हि कमलिनीं दृष्ट्वा ग्राहमवेक्षते मतङ्गजः । मदः किल स्त्रीजनस्य सविशेषं मण्डनम् । चूताङ्कुरं विचिन्वत्योरावयोः पिपीलिकाभिर्दष्टम् । अनुरागोऽनुरागेण परीक्षितव्यः । भ्रमरसंबाध इति वसन्तावतारसर्वस्वभूतः किं न चूतप्रसवे वतंसनीयः। न शोभते प्रणयिजने निरपेक्षता । अविषोऽपि कदाचिदंशो भवेत् । कुतूहलवानपि निसर्गशालीनः स्त्रीजनः । रमणीयः खलु नवाङ्गनानां मदनाविषयावतारः । किं नु खलु दुर्दुरा व्याहरन्तीति देवः पृथिवीं वर्षितुं स्मरति बन्धनस्थितो गृहकपोतको बिडालिकालोके पतितः । आगामि सुखं वा दुःखं वा हृदयं समर्थीकरोति । चन्दनं खलु मया पादुकापरिभोगेण दूषितम् । अहो परिभवोपहारिणो विनिपाताः । सर्वोऽपि नववरो लज्जातुरो भवति । पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम् । सन्तः परीक्षान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः :: ॥ १.२ ॥
पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४४४
एतत् पृष्ठम् परिष्कृतम् अस्ति