पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( 80 ) राजा-सर्वः दुष्यन्तविदूषकसंवादः । राजा-गच्छाग्रतः । विदूषक--एतु भवान् । ( इत्युभौ परिक्रम्योपविष्टौ ।) राजा-माढव्य, अनवाप्तचक्षुःफलोऽसि, येन त्वया दर्शनीयं न दृष्टम् । विदूषक--ननु भवानग्रतो मे वर्तते ।

खलु कान्तमात्मानं पश्यति, तामाश्रमललामभूतां

शकुन्तलामधिकृत्य ब्रवीमि । विदूषक- (स्वगतम् ) भवतु। अस्यावसरं न दास्ये। भो वयस्य, ते तापसकन्यकाभ्यर्थनीया दृश्यते । राजा-सखे, न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते । सुरयुवतिसंभवं किल मुनेरपत्यं तदुज्झिताधिगतम् । अर्कस्योपरि शिथिलं च्युतमिव वनमालिकाकुसुमम् ॥ ८ ॥ विदूषक-(विहस्य ) यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिन्ति- ण्यामभिलाषो भवेत् , तथा स्त्रीरत्नपरिभाविनो भवत इयमभ्यर्थना । राजा--न तावदेनां पश्यसि येनैवमवादीः । विदूषक-तत् वनु रमणीयमेव, यद्भवतोऽपि विस्मयमुत्पादयति । राजा--वयस्य, किं बहुना ? चित्रे निवेश्य परिकल्पिसत्त्वयोगा रूपोच्चयेन मनसा विधिना कृता स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ ९ ॥