पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( 81 ) विदूषकः-~यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् । राजा-इदं च मे मनसि वर्तते-- अनाघ्रातं पुष्पं किसलयमलूनं कररुहै- रनाविद्धं रत्नं मधु नवमनास्वादितरसम् । अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः।। १० ।। विदूषकः-लेन हि लघु परित्रायतामेनां भवान् । मा कस्यापि तपस्विन इंगुदीतलमिश्रचिक्कणशीर्षस्य आरण्यकस्य हस्ते पतिष्यति । राजा-परवती खलु तत्रभवती । न च संनिहितोऽत्र गुरुजनः । विदूषकः-अत्रभवन्तमन्तरेण कीदृशस्तमस्या दृष्टिरागः ? राजा-निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः । तथापि तु अभिमुखे मयि संहृतमीक्षणं हसितमन्यनिमित्तकृतोदयम् । विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥ ११ ॥ विदूषकः-न खलु दृष्टमात्रस्य तवाङ्कं समारोहति । राजा-मिथःप्रस्थाने पुनः शालीनतयापि काममाविष्कृतो भावस्तत्रभवत्या । तथा हि- दर्भांकुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा । आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥ १२ ॥ --