पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१७२ काव्यमाला ।


सत्त्वान्तःस्फुरिताय वा कृतगुणाध्यारोपतुच्छाय वा
तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूत् ।
यच्छायाच्छुरणारुणेन खचिता खद्योतनाम्नामुना
कीटेनाहितयापि जङ्गममणिभ्रान्त्या विडम्ब्यामहे ॥ १५ ॥

दन्तान्तकुन्तमुखसंततपातघात-
संताडितोन्नतगिरिर्गज एव वेत्ति ।
पञ्चास्यपाणिपविपञ्जरपातपीडां
न क्रोष्टुकः श्वशिशुहुंकृतिनष्टचेष्टः ॥ १६ ॥

अत्युन्नतिव्यसनिनः शिरसोऽधुनैष
खस्यैव चातकशिशुः प्रणयं विधत्ताम् ।
अस्यैतदिच्छति यदि प्रततासु दिक्षु
ताः स्वच्छशीतमधुराः क्व नु नाम नापः ॥ १७ ॥

सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं
दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन या ।
पूर्वं निश्चितवानसि भ्रमर हे यद्वारणोऽद्याप्यसा-
वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥ १८ ॥

तद्वैदग्ध्यं समुदितपयस्तोयतत्त्वं विवेक्तुं
संल्लापास्ते स च मृदुपदन्यासहृद्यो विलासः ।
आस्तां तावद्बक यदि तथा वेत्सि किंचिच्छ्लथांसं
तूष्णीमेवासितुमपि सखे त्वं कथं मे न हंसः ॥ १९ ॥

१. 'नहि' इति सुभा० पाठः, २. 'सर्वं निश्चितवानसि' इति सुभा०; 'सर्वं,

विस्मृतवानसि' इत्यपि पाठा. ३. 'आलापाः' इति सुभा०, ४. श्लथाशं' इति सुभा०, ५. 'अयि' इति सुभा०.