पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

नैराश्यातिशयातिमात्रमनिशं निःश्वस्य यदृश्यसे
तृप्यद्भिः पथिकैः कियत्तदधिकं स्यादौर्वदाहादतः ॥ ४९ ॥

ग्रावणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी
मुक्तौघाः सिकताः प्रवाललतिका शैवालमम्भः सुधा ।
तीरे कल्पमहीरुहाः किमपरं नाम्नापि रत्नाकरो
दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति ॥ ५० ॥

भिद्यतेऽनुप्रविश्यान्तर्यो यथारुच्युपाधिना ।
विशुद्धिः कीदृशी तस्य जडस्य स्फटिकाश्मनः ॥ ५१ ॥

चिन्तामणे भुवि न केनचिदीश्वरेण
मूर्ध्ना धृतोऽहमिति मा स्म सखे विषीदः ।
नास्येव हि त्वदधिरोहणपुण्यबीज-
सौभाग्ययोग्यमिह कस्यचिदुत्तमाङ्गम् ॥ ५२ ॥

संवित्तिरस्त्यथ गुणाः प्रतिभान्ति लोके
तद्धि प्रशस्यमिह कस्य किमुच्यतां वा ।
नन्वेवमेव सुमणे लुठ यावदायु-
स्त्वं मे जगत्प्रहसनेऽत्र कथाशरीरम् (?) ॥ ५३ ॥

चिन्तामणेस्तृणमणेश्च कृतं विधात्रा
केनोभयोरपि मणित्वमदः समानम् ।
नैकोऽर्थितानि दददर्थिजनाय खिन्नो
गृह्णञ्जरत्तृणलवं तु न लज्जतेऽन्यः ॥५४॥

१. 'अनुशया-' इति सुभा०, २. 'नामापि' इति सुभा०. ३ धृतोऽसि यदि मा सम ततो' इति सुभा०. ४. 'रोपणपुण्यवीज' इति सुभा०.