पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

भावशतकम् । कुड्याग्रेषु पुनः प्रसारितकरं निःशङ्कया दीयते प्रत्यग्रेन्दुकलामिव प्रणयिनीं तन्मङ्क्षु संभावय ।। २५ ॥ भूमौ बलिदाने मङ्गलबलयविनिपात: संभावितः । अथवा सशब्दवलय- निपातेन चकितः काको बलिं न स्पृशतीति ॥ शोणाङ्कः १. शशालाञ्छनः किसलयं शोभां विधत्तेऽलिना कम्बुः कापि सुरेखितः कुवलये बन्धूकपुष्पाञ्चिते । एवं धूर्तसखीजने वदति तां मुग्धां गृहीत्वा शठः किं दृश्यं नयनेषु नेति कथयन्वापीं ययौ क्रीडितुम् ॥२६॥ जलक्रीडाव्याजेन व्यभिचारचिह्नप्रक्षालनं स्यादिति ॥ दूरं गतं प्रियतमं परिचिन्त्य चित्ते रुद्धेषु वारिदगणैर्हरितां मुखेषु । रुद्धास्यमेव सुदृशा शनकै रुदन्त्या नेत्राम्बुना तिलकमाशु विशीर्णमासीत् ॥ २७॥ तप्तस्तनपतितनेन्नाम्बुसेकाविर्भूतबाष्पजनितस्वेदादिभिः ॥ लीलासरोरुहि कयाचन वीक्षमाणे केनाप्य़हो मधुकरेण विवर्जितेपि । तत्कान्ताः क्षितिभृत्तटीषु मणिभिर्नीलैः सुरम्यासहो कोकान्षट्पदमालिकाश्च कमलान्यालोकयन्त्यद्भुतम् ॥ २९ ॥ स्वस्तनालकमुखप्रतिबिम्बालोकनात् । अथवा नीलमणिजनितान्धकारे दिन ज्ञानाय कोकसंयोगं घट्पदतद्विधप्रचार कमलविकासं च ॥