पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/६

एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

 इत्युद्यत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव देव्या
  न्यस्तो वो मूर्ध्नि मुल्यान्मरुदसुहृदसून्संहरन्नङ्घ्रिरंहः ॥१॥

 देव्या अङ्घ्रिश्चरणो वो युष्माकमंहः पापं मुध्याद्धरतु । किं कुर्वन् । मरुद- सुहृदसून्देववैरिप्राणान्संहरन् । कीदृशोऽङ्घ्रिः । मूर्ध्नि न्यस्तः । अर्थान्मरुदसुहृदो महिषासुरस्यैव । किंभूतया देव्या । इत्यमुना प्रकारेण उद्यत्कोपकेतूनाविर्भवत्क्रोधचिह्नानवयवान्निजाङ्गान्प्रकृतिं पूर्वावस्थां प्रापयन्त्या इव । इति कथम् । हे भ्रूः, विभ्रमं विलास मा भाङ्क्षीः मा आमर्दयः । हे अधर ओष्ठ, केयं विधुरता किमिदं वैकल्यम् । हे आस्य मुख, रागं लौहित्यमस्य क्षिप। 'असु क्षेपणे' । हे पाणे हस्त, अयं महिषः प्राण्येव चेतनावानेव न । कलहश्रद्धया सङ्ग्रामवाञ्छया त्रिशूलं किं कलयसि । यद्वायं ना पुरुषः प्राण्येव जन्तुमात्रोऽयमस्मत्पादतलाघातमात्रसाध्यः, तत्किं युष्माभिरसमय एव वृथा कोपाद्विकृतिरास्थीयते, स्वस्था भवन्तु भवन्तः । उत्प्रेक्षालंकारः ।।

 हुंकारे न्यकृतोदन्वति महति जिते शिञ्जितैर्नूपुरस्य
  श्लिष्यच्छृङ्गक्षतेऽपि क्षरदसृजि निजालक्तकभ्रान्तिभाजि ।
 स्कन्धे विन्ध्याद्रिबुद्ध्या निकषति महिषस्याहितोऽसूनहार्षी -
  दज्ञानादेव यस्याश्चरण इति शिवं सा शिवा वः करोतु ॥२॥

 सा शिवा भगवती वः शिवं कल्याणं करोतु । सा का । इत्यज्ञानादेव यस्याश्चरणो महिषस्यासून्प्राणानहार्षीत् । किंभूतश्चरणः । बिन्ध्यादिबुद्ध्या अस्मन्निवासोऽयं विन्ध्यपर्वत इति धिया स्कन्धे अर्थान्महिषस्य आवृतो न्यस्तः । किंभूते च स्कन्धे । विन्ध्याद्रिबुद्ध्या निकषति कण्डूत्यपनात्यर्थ निकषण कुर्वति । श्यामत्वाद्देवीचरणस्य तस्मिन्महिषस्कन्धस्यापि विन्ध्याद्रे भ्रमो जातः । अत एव घर्षणं करोति । इति किम् । महति न्यक्कृतोवति तिरस्कृतसमुद्रघोषे हुंकारे अर्थान्महिषस्य नूपुरस्य शिञ्जितैर्जिते सति स्कन्धनिकषणेनैव नूपुरध्वनिः समुत्पन्नः । हुंकारेण महिषोऽयमिति ज्ञान शक्यः । हुंकारस्य नूपुरशिञ्जततिरस्कृतत्वात् । अन्यच्च श्लिष्यच्छृङ्गपि

क्षरदसृजि गलद्रुधिरे [अर्थाद्देव्याश्चरणे] निजालक्तकभ्रान्तिभाजि स्वदवकरसभ्रमयुक्ते सति । एवमुपन्यस्तहेतुत्रयाद्भ्रान्तिः समुत्पन्ना ॥


१. 'स्थापयन्त्येव'.