पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

भावशतकम् । a मुक्ताफलान्यपि दहन्ति हि नीचमार्गे सङ्गो जडैर्गुणिनमप्यहितीकरोति ॥ ८४ ॥ अतितापाचूर्णकलिकीभूतानामुपलानामुष्णजलसङ्गाद्बहुतापकारित्वम् । ईश्वरजटाप्रदेशे प्रोद्यत्कृतमालमालिकानिकरे । परिमलबहुलेऽप्यलयः किमिति मनोज्ञेऽपि नासते लुब्धाः॥८५॥ चम्पककुसुमभ्रान्त्या । कंदर्पो योगजुषां भेत्तुं सर्वं समाधिमतिवेगात् । आकृष्य चापमधिकं नो मुञ्चति सायकं चित्रम् ॥ ८६ ॥ आत्मदाहबृत्तान्तं स्मृत्वा ॥ त्वं पार्थादधिकोऽसि संप्रति धनुर्विद्याविदामग्रणीः प्रीत्या यद्वचनं करोषि नियतं कुर्या विशेषादिदम् । चन्द्रेणेह कलङ्किना मम मुखं गायन्ति तुल्यं ततो हत्वैनं प्रिय पातयास्य हरिणं प्रातः प्रयातासि यत् ।।८७॥ प्रातर्विदेशं प्रयातरि प्रियतमे सूर्योदयमनाकाङ्क्षमाणा मृगवधमादिशति । तद्वधेन रात्रेस्तथैवावस्थानात् । तद्वियोगादियं परासुर्भवित्री । त्वं तमेव यथाकालं पश्यसीति तत्समत्वात् ॥ सखीनिदेशानुचरः प्रियोऽयमुच्चखरा पञ्जरशारिका च । एतत्सपत्नीगृहमप्यदूरे कथं नु मानः सखि नैष मान्यः ।। ८८ ॥ अन्नत्यं वृत्तान्तं शारिकामुखात्सपत्नी शृणोतीति परित्याज्यो मानः ।। मजंश्चरमसमुद्रे मार्तण्डश्चण्डमात्मनस्तापम् । तस्यैव तटविभागे जन्तुविशेषेऽक्षिपत्सत्यम् ॥ ८९ ॥ चक्रवाके ॥ कामेषोरिव भल्लिका विरहिहृच्चिन्ताम्बुपूर्णार्णवे तापानामिव नौर्विघोरिव कला मानग्रहप्रन्थिहृत् ।