पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारकलिकात्रिशती। डोवीप्रभृतिरूपकविविधप्रतिरूपकाणि दृष्टानि । प्रतिरूपकं मयाद्य व्यलोकि लोकेऽद्भुतं सुभग ॥ ३९ ॥ डौडभशिशुं चरन्तं मुक्तशफरीविवृतवदनान्तः । दर्शयति प्रतिवेलं खेलन्ती दयितमम्बुनि हसन्ती॥ ४० ॥ ढक्कारव इव रतिपतिविजयप्रास्थानिको जयति । प्रत्यूषे शतपत्रप्रसूनपङ्क्तिस्फुटोन्नादः ॥ ४१ ॥ ढुण्ढोत्सवे सुकेशी प्रियह्रदि पैष्टातकं मुष्टिम् । अनुरागमान्तरस्थं प्रीत्येव समर्पयामास ॥ ४२ ॥ ढौकितवती स्तनाभ्यां देवकाशं ममापसर परतः । निगदन्तीत्थं दयितं मनस्विनी रात्रिपर्यन्ते ।। ४३ ॥ तस्याः स्मरामि सारीद्यूतपणे निजपराजयैकफले। पुरुषायिते श्रमाम्भःपरिचितमुत्कम्पितोरुवपुः ॥ ४४ ॥ तारुण्यगुणगरिष्ठे निन्दति नाथे पराङ्गनासक्तम् । तारापतिं प्रदर्श्यनतानना कमलनयनासीत् ॥ ४५ ॥ तिमिराभिसारिका सा नासापवनाहृतालिकुला । कैर्न विदिता वराङ्गी साङ्गीकृतमन्मथा विपिने ।। ४६ ।। तीरस्थितैणशावकनयना प्रतिबिम्बमम्बुनि प्रेक्ष्य । निकटनिषण्णः कश्चित्पुलकितगात्रो जहास नतवदनः ॥ ४७॥ तुलयन्त्यां वणिजोऽम्बुजनयनायां पण्यवस्तूनि । त्वरितागतोऽपि चित्रं पण्यग्रहणं विसस्मार ॥ १८॥ तूलपटीमपहाय स्वपिति सहस्येऽप्यनावृतशरीरः । अवलोकितनिजदयितानन्दपटानन्दितस्वान्तः ॥ ४९ ॥ ते पत्रिका प्रदिष्टा प्रिययेत्युक्त्वा निवेदिता पुंसाम् । श्रीकारमात्रसितामवलोक्य चिरं निशश्वास ॥ ५० ॥