पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ काव्यमाला । धौताञ्जनाश्रुवदने वद नेयासौ त्वया कियती । रात्रिः शृणु चरणायुधकूजितशरणा समापतिता ॥ ७५ ॥ धंधनपरस्तपस्वी मुग्धामालोक्य ललितमौलिः । कर्णेजपवत्कर्णे जपं (च)कारान्यलोकस्य ॥ ७६ ॥ नवरङ्गपिहितगात्री पात्रीभूता युवप्रीतेः । नयनानन्दविधात्री रात्रीरेताः करोतु मे सफलाः ॥ ७७ ॥ नावि जनैः पूर्णायामारोढुं योषितमशक्ताम् । आरोहितुं प्रवृत्तो लेभे नौवाहिकस्तदाश्लेषम् ॥ ७८ ॥ निधिमिव जघनं तस्या रोमालीचिह्नितं नवोढायाः । नाभीमुद्रामुद्रितमालोक्यानन्दितस्थितस्तूष्णीम् ॥ ७९ ॥ नीवीबन्धे नीवीं दयिते परिमोक्तुमसमर्थे । बाला जहास निभृतं तथा यथाहासयत्स्वसखीः ॥ ८० ॥ नुन्नं प्रिययात्मानं पृथुना वृक्षोरुहैकेण । यात्राजनसंमर्दनरथ्यावदने युवा कृतिनमिव मेने ॥ ८१ ॥ नूतनमानन्दपटं प्रथमं सदने जनैार्व्याप्ते । प्रकटयति गोपयत्यपि गोपवधूर्विपरिवर्तितोरुयुगा ॥ ८२ ॥ नेय इतोऽयं बालो रोदनशीलः कृतककृतरोपम् । आह म सखीीला नतानना प्रियतमे चिरायाते ॥ ८३ ॥ नैशे तमसि मृगाक्षी लक्ष्यीकृत्य प्रियाभिसृतिम् । चलिताधिदेहलि पदं दोलारूढं मुहुर्मुहुरकर्षीत् ॥ ८४ ॥ नोल्लङ्घ्यति गुरूणां वचनं प्रतिवासरं तदाज्ञप्ता । शूकक्षतापि केतककुसुमान्यानयति पूजायै ॥ ८५ ॥ नौ संगमो विधाता स्वप्नेष्वप्यसहनो न संतनुते । उज्जागरतः स्वप्नो भ्रश्यति हा दैवबलवत्ता ॥ ८६ ॥