पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारकलिकात्रिशती । १०७

मण्डनभूतं बालं मातृकुलादागता सुतनुः । कृतकृतकरोषतरला स्वापयति प्रतिपदं विलोकयति ॥ ३३ ॥ यजति निजगेहनाथे प्रातर्निद्राति मीलदक्षियुगा । पार्श्वस्थभित्तिसंरूढजारमुखमीक्ष्य हसिता सा ॥ ३४ ॥ यागं कुर्वति पत्यौ प्रवसति जारे समागते प्रष्टुम् । धूमच्छलगोपायितनयनजलं सा रुरोद चिरम् ॥ ३५ ॥ युगली रथाङ्गनाम्नोरमीमिलद्विकसिता कुमुदपङ्क्तिः । वाच्यं किमत्र चित्रं नैवास्ति प्रेम्णि निर्बन्धः ॥ ३६ ॥ यूना कम्पितधैर्या स्वपतिं दृष्ट्वा पलितशीर्षम् । प्रतिवेशवधूस्नेहच्छलतः प्रच्छन्नकमकार्षीत् ॥ ३७ ॥ येनोपहासविषये वयसि न तत्कार्यमित्युक्ता । नियमव्रतापदेशाद्भूशयनाभ्यासमातनुते ॥ ३८ ॥ यैर्ग्रथितेयं वेणी सुगन्धतैलैः कचान्समीकृत्य । मम कृतसीत्कारायास्तान्येव नखानि तां विमोक्षन्तु ॥ ३९ ॥ योजनमात्रं चलितं पान्थं सुकुमारमिन्दुमुखमीक्ष्य । दर्शयति बलात्स्वगृह> स्वास्तृततल्पं कमावसथ्याग्र्या ॥ ४० ॥ यौवनगर्वितमध्वगमात्मावसथं निनीषन्त्योः । विरचितवक्रकराङ्गुलि जयतितरामावसथ्ययोः कलहः ॥ ४१ ॥ यन्त्रपदाङ्गुष्ठयुगप्रहितो न पदात्पदं करी चलति । अभिसारिकाकुचद्वयदर्शनसंजातवारणाशङ्कः ॥ ४२ ॥ यः प्रतिपदं सखीभिः शिक्षावशतो न्यधायि हृदयेऽन्तः । उपपतिरिव सोऽपि गतो मानः प्रियदर्शनावसरे ॥ ४३ ॥ रत्नस्तम्भे स्वीयां प्रतिमामालोक्य रोषकलुपाक्षी । स्वान्तर्जनसमयोद्वेल्लत्करकमला वीक्ष्य तां जहास वधूः ॥ ४४ ॥