पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८ काव्यमाला । राजपथे विक्रेतुं कन्दुकयुगलं च लोहसर्पं च । आगतयोरथ यूनोर्मिथो जयत्यर्धनियमोक्तिः ॥ ४५ ॥ रिक्तोदपात्रकरतलमास मृगाक्षी सरित्तीरे । गुञ्जदलिपुञ्जमञ्जुलवञ्जुलजाले लताकुञ्जे ॥ ४६ ॥ रीतिमयभूषणापि हि चलति वधूः सा निमीलिताक्षियुगा । गर्भभरमन्थराङ्गी पुर: सपत्न्याः सकांस्यभूयायाः ॥ ४७ ॥ रुतमाकर्ण्य पिकानां का नाम न संभवेदुत्का । कथमुपनयाम्यनिद्रां चन्द्रांशुविभावितां रात्रीम् ॥ ४८ ॥ रूपभरगर्वशीला वाला वैवाहिके समये । नन्दति निजभवनजनेऽञ्जनबिन्दुः स्वालिके व्यतनोत् ॥ ४९ ॥ रेणुपरिधूसरालकचरमतनुः स्फोटितस्ववलयालिः । भग्नकलशा रुदन्ती बाला शनकैर्गृहमयासीत् ॥ ५० ॥ रैवतकभूपरिसरे भैमीभामायुतः कृष्णः । व्यत्ययमकरोद्विनिमयमनयोर्ज्येष्ठाकनिष्ठिकाभावे ॥ ५१ ॥ रोमलतिकालवाले पपौ रसं नयनखञ्जनद्वन्द्वम् । अतितृप्तिभावमाप्तं रसमास्वादयति नान्यमिदम् ॥ ५२ ॥ रौरवचर्मावृतया योगिरतासक्तया तमसि । आलिङ्गय भीषितः पतिरुपागतो मन्दमेणाक्ष्या ॥ ५३ ॥ रङ्गाजीववधूटीपरिपाटीं को नु विन्देत । सममेव युवजनानां मनांसि वासांसि रञ्जयति ॥ ५४ ॥ लज्जानताननायाः परिणयने भर्तृसंमुखीनायाः । ऊर्ध्वीकृततारायास्तदाननालोकनं जयति ॥ ५५ ॥ लाक्षारञ्जितचरणा चरणायुधकूजितं श्रुत्वा । प्रक्षालयति स्वीयौ चरणौ सलिलैरहो दृष्टा ॥ ५६ ॥