पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३४ काव्यमाला । नादास्तान्तिमदब्जनाभचरणे बुद्धिं परं वार्द्धके चेतश्चिन्तय चक्रपाणिचरणावन्तेऽपि खेदं जहि ॥'

इत्यादिप्रतिपाद्यो निर्वेदस्थायिकः शान्तोऽपि नवमो रस इति प्राहुः । प्रपञ्चस्तु प्रकृतेऽनुपयुक्तत्वादुपेक्ष्यः । तत्र शृङ्गारत्वं तु रतिप्रकर्षे सति रसत्वसाक्षाद्व्याप्यजातिमत्त्वम् सत्यन्तकृत्यं स्पष्टम् । विशेष्यदलं च भावसंकरेऽतिव्याप्तिवारणाय । निरुक्तिस्तु ।

'शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः । पुरुषप्रमदाभूमिः शृङ्गार इति गीयते ॥'

स च संभोगविप्रलम्भ भेदाद्विधा । संभोगलक्षणं तु विप्रलम्भभिन्नत्वे सति रतिप्रकर्षत्वम् ।

स्वरूपमुक्तं कारिकाकृता-

'अनुरक्तौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनाद्यैश्च संभोगोऽयमुदाहृतः ॥'

तत्र दर्शनं त्रिविधम् साक्षाच्चित्रस्वप्नभेदात् । साक्षाद्दर्शनं यथा--- 'विस्रस्तनीविविशदीकृतरोमराजिं राजीवलोचनयुगं परिमीलयन्तीम् । बाहू मुहुर्वलितकंधरमुत्क्षिपन्तीं शातोदरीं त्यजति न क्षणमक्षि मेऽद्य ॥'

स्पर्शनं निधुवनं यथा- 'न्युब्जीभूतः कनकशिखरी ह्रादिनी बद्धमूला खेलत्येषा वियति विसृत्येष ताराकदम्बम् । भूयः खिन्नं गिलति तमसा वृन्दमिन्दं सरोजं चुम्बत्येनं कुसुमधनुषः सृष्टिरन्यापि धन्या ॥'

रतिप्रकर्षे सति इष्टानाप्तिर्विप्रलम्भः ।