पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

यस्मिन्सुवर्णविलसद्रवमञ्जुलामे वेणीसुमेषु जयमन्त्रलिपिर्विभाति । गाङ्गेयगौरतरकेतककान्तिकान्तः कष्टादिरीन्द्रजनुषोऽवतु पृष्ठभागः ।। ३३!! अद्धा धराधरधुरंधरधोरणीन्द्र- सज्जन्मनो निजजनोज्जवलभाग्यभाजः । रम्भानवोदितदल द्वयसुन्दराभं पार्श्वद्वयं दलयतान्मम दीर्घदुःखम् ।। ३ ।। अङ्गाङ्गसङ्गिसुषमाच्छतरङ्गिणीज- रिङ्गत्तरङ्गविभवद्भमिभावभूता । भूताधिपस्य सुदृशो निभृतं गभीर- नाभीनिभा भवतु मे भविकाय भूयः ॥ ३५ ॥ लावण्यपूर्णजलनाभि सुवापिकोद्य-- च्छैवालबालशुभमञ्जरिकेव मञ्जुः । सत्कञ्जगुञ्जदलिमञ्जुललोचनाया लोमावली कलयतान्कुशलं शिवाया: ।। ३६ ।। जेतुं शिवं स्तननगेषु तपस्यतो या निःश्रेणिकेव मदनस्य विभाति हैमी । सोपानपपङ्क्तिरिव नामिसरोवरस्य शैलेोद्भवो वलयतात्रियलीविलासम् वीक्ष्य प्रकामसुषमामसमां यथोः श्री- वक्षोजयोर्हिमगिरीन्द्रजनेर्जनन्याः । धूलि गजा दधति कुम्भयुगेऽतिदीना हीणा मनागपि तमोहरतां तमान्तौ ॥ ३८॥