पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १४३

यित्वमिति लक्षणे न दोषगन्ध इति सुस्थम् । सा तु त्रिधा । स्वीया, परकीया, सामान्यवनिता चेति । तत्र पतिभिन्नाननुरक्ता स्वीया । यत्तु शीलादिमत्त्वमेव लक्षणमातन्वते । तन्न । बोधानुबन्धि स्वीयाया अधीरत्वानापत्तेः । अस्याः पतिपरिचर्यापरपुरुषानिरीक्षणादयश्चेष्टाः ।

यथा- 'यातायातकुतूहले नयनयोः सीमानमातन्वता नेत्रान्तं मधुरस्मितेऽधरतलं वाचि प्रियस्य श्रुतिम् । चित्तस्यापि गतागतेषु विधिना कान्तप्रतीकावलीं मन्दाक्षप्रसरे कुलाम्बुदृशां नाकारि सीमा कुतः ॥'

सा त्रिविधा । मुग्धा, मध्या, प्रगल्भा चेति । स्वीयाया एवं त्रैविध्यदर्शनात्परकीयासामान्यवनिते न मुग्धे, किंतूभयविधे एवेति सूचितम् । अदश्च संजाघटीति गुणानुरागाद्द्रव्यलोभाद्वा न भवति मुग्धाया [न च वयःकामाया] अन्यत्रानुरागः । न च शकुन्तलादीनां विवाहात्प्राक् परकीयाणामप्यनुरागदर्शनात्तत्रापि मुग्धात्वस्वीकार आवश्यक इति वाच्यम् । शकुन्तलादीनामुदितयौवनानां मध्यात्वमेव न तु मुग्धात्वम्, सुयोगं विनातिकालेन तस्यापगमात् । तत्र प्रथममवतीर्णनवयौवना मुग्धा । सा च ज्ञातयौवनाज्ञातयौवनभेदाद्द्विधा । एषैव नवोढेत्युच्यते । विश्रब्धनवोढा तु मध्यैवेत्येके । मुग्धाया आद्यावस्था नवोढा दरविश्रब्धा मुग्धैव विश्रब्धनवोढत्यन्ये । अस्याश्च रतिवामत्वकोपमृदुत्वादयश्चेष्टाः क्रमेणोदाहरणानि । यथा---

'रोमालीवेभ(त्र)धारी प्रथममथ वयो मङ्गलाशंसि कुम्भ- द्वन्द्वं वक्षोजरूपं मदननरपतेर्हन्त जैत्रस्य यातम् ।