पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ काव्यमाला ।

मध्या धीरा यथा--- 'परिचितभिप(क्तत्त)[क्कृत्य स्यालं मधौ मदनाशुगै- र्मुषति सुदृशां मानं वासन्तिकापरिमोदिते । दयित भवतः क्षुण्णाङ्गस्यापि केतककण्टकै- र्भ्रमणमुचितं श्वासोत्कम्पाधरस्य वनालिषु ॥'

मध्याधीरा यथा------ 'दग्ध्वा नयने भूयः कुलटायाः कितव नन्वराङ्कैः । विकटैरटितैर्विट किं निर्दय हृदयं ममादहसि ॥'

मध्या धीराधीरा यथा--- 'कान्त भाग्यवतां वक्षो यक्षकर्दमर्दितम् । इत्युदीर्य दधौ बाला दृशं बाप्पतरङ्गिणीम् ॥'

प्रौढा धीरा यथा-- 'नोरीकरोषि नयनाञ्चलतोऽपि तल्प-- मद्यास्ति ते मुषितहास्यमिहास्यपद्मम् । नैनं भुजिप्यमुररीकुरुषे कृशाङ्गि वाचापि साचिमुखि कोपविधिः क एषः ॥'

प्रौढाधीरा यथा--- 'समीक्ष्य लाक्षारसभाविताङ्गं कर्णान्तविश्रान्तविलोचना माम् । अभर्सयञ्चञ्चलतारकेण महाश्मरश्मिच्छुरिणा करेण ॥'

प्रौढा धीराधीरा यथा----- 'मयि काकुवाचि सुदती समुल्लसत्स्मितशोभिगण्डयुगलाभवत्क्षणम् । अथ तल्पभाजि नवविद्रुमस्त्रवत्तटिनीसरोजसदृशं दृशं दधौ ॥'

एते च धीरादिपड्भेदा ज्येष्ठाकनिष्ठाभेदाद्द्विधा । परिणीतत्वे सति