पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । १४९

तेनानङ्गतरङ्गितानि निभृतं कुञ्जोदरे वीरुधा- मीहे किं करवाणि हा परवशां वृत्तिं विधाता व्यधात् ॥'

कन्या यथा- 'तपस्या कस्यासीत्परिणतवती कस्य भगवा- ननङ्गः संतुष्टः सुकृतविटपी कस्य फलितः । इयं यस्मै वत्सा[प्रस्ता]रितकमललोलालिसदृशा दृशा भूयो भूयः स्पृहयति धरित्रीशतनया ॥'

गुप्ताविदग्धालक्षितामुदिताकुलटानुशयानानां परकीयायामेवान्तर्भावः । गुप्ता द्विविधा । वृत्तसुरतगोपना वर्तिष्यमाणसुरतगोपना चेति । वृत्तसुरतगोपनत्ववर्तिष्यमाणसुरतगोपनत्वयोर्धर्मयोरेकत्वासंभवान्न त्रैविध्यम् ।

गुप्ता यथा--- 'निन्दन्तु प्रतिवेशिनो मम जनाः श्वश्रूश्चिरं क्रुध्यतां नाहं भानुसुतातटे सखि पुनर्यास्ये बतैकाकिनी । बन्धूकप्रसवप्रकाममधुरच्छाये मदीयाधरे भ्रामंभ्राममसौ न कृष्णमधुपः कां कां व्यधाद्वा विधाम् ॥'

द्वितीया यथा- 'शैवलपिच्छिलदृषदं मामेव प्रेषयत्यसौ वापीम् । भङ्क्ष्यति मे वलयाली प्रतिवेशिनि साक्षिणी भूयाः ॥'

विदग्धा द्विविधा---क्रियाविदग्धा वाग्विदग्धा चेति । क्रियाविदग्धा यथा--- 'जिगमिषति प्राघुणिके द्वित्राः स्थित्वा कथंचिदिह रात्रीः । मार्जारमस्य मार्गे मुमोच निभृतं कुरङ्गाक्षी ॥'