शृङ्गारामृतलहरी । १५७
व्रीडाविडम्बनमकार्यममुष्य हेतोः सोऽयं मया हतधिया कलहान्निरस्तः ॥'
सामान्यवनिता कलहान्तरिता यथा--- केलिष्वपि प्रणयतो मयि मानवत्यां रत्नैरकारि किल दुर्दिनमेव येन । तस्मिन्मया प्रियतमे कलहं सृजन्त्या हा वञ्चितं हतधिया निजभागधेयम् ॥'
कामार्ता सती स्वयमभिसरति पतिमभिसारयति वा साभिसारिका । स्वीयाभिसारिका यथा--- 'नीलं चोलमुपाकृतं जलघरध्वान्तैर्जटालेऽम्बरे शम्पासंपतने चिराय दधिरे क्लृप्तानि गात्राण्यपि । अङ्घ्रिः स्थापित एवं शिञ्जितभिया पाथोदसंगर्जिते कष्टं पौर्वसमीरणेन विदधे व्यक्तोदयश्चन्द्रमाः ॥'
परकीयाभिसारिका यथा--- फणिफणमणिरश्मिदर्शिताध्वा कृततिमिरोचितवेषमम्बुजाक्षी । परभयपरिमन्थरं निशासु स्तनभरभङ्गुरमध्यमेति कान्तम् ॥'
सामान्यवनिताभिसारिका यथा- 'चलच्चोलं दोलन्मणिखचितताटङ्कयुगलं चलन्नेत्रं पत्रावलिललितगण्डस्थलमलम् । रणद्भूषं पुष्यद्विपुलवसुलोभं सुमदनं द्रुतं केलीकुञ्जं व्रजति कृतिनो वारवनिता ॥'
ज्योत्स्नाभिसारिका यथा--- 'सान्द्रां चन्द्रे विसृजति निजां चन्द्रिकां सर्वगन्त्रीं तन्वाने च त्रिभुवनतले मुग्धदुग्धाब्धिलक्ष्मीम् ।